← Shiva Samhita
Shiva Samhita
प्रथमपटलः
102 verses · Traditional
1.1
एकं ज्ञानं नित्यमाद्यन्तशून्यं नान्यत् किञ्चिद्वर्तते ते वस्तु सत्यम् । (किञ्चिद
1.2
अथ भक्तानुरक्तोऽहं वक्ष्ये योगानुशासनम् । (वक्ति) ईश्वरः सर्वभूतानामात्ममुक्तिप्
1.3
त्यक्त्वा विवादशीलानां मतं दुर्ज्ञानहेतुकम् । आत्मज्ञानाय भूतानामनन्यगतिचेतसाम्
1.4
सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे । क्षमां केचित्प्रशंसन्ति तथैव सममार्ज्जव
1.5
केचिद्दानं प्रशंसन्ति पितृकर्म तथापरे । केचित्कर्म प्रशंसन्ति केचिद्वैराग्यमुत्त
1.6
केचिद्गृहस्थकर्माणि प्रशंसन्ति विचक्षणाः । अग्निहोत्रादिकं कर्म तथा केचित् परं व
1.7
मन्त्रयोगं प्रशंसन्ति किचित्तिर्थानुसेवनम् । एवं बहूनुपायांस्तु प्रवदन्ति हि मुक
1.8
एवं व्यवसिता लोके कृत्याकृत्यविदो जनाः । व्यामोहमेव गच्छन्ति विमुक्ताः पापकर्मभि
1.9
एतन्मतावलम्बी यो लब्ध्वा दुरितपुण्यके । भ्रमतीत्यवशः सोऽत्र जन्ममृत्युपरम्पराम्
1.10
अन्यैर्मतिमतां श्रेष्ठैर्गुप्तालोकनतत्परैः । आत्मानो बहवः प्रोक्ता नित्याः सर्वग
1.11
यद्यत्प्रत्यक्षविषयं तदन्यन्नास्ति चक्षते । कुतः स्वर्गादयः सन्तीत्यन्ये निश्चित
1.12
ज्ञानप्रवाह इत्यन्ये शून्यं केचित्परं विदुः । द्वावेव तत्त्वं मन्यन्तेऽपरे प्रकृ
1.13
अत्यन्तभिन्नमतयः परमार्थपराङ्मुखाः । एवमन्ये तु सञ्चिन्त्य यथामति यथाश्रुतम्
1.14
निरीश्वरमिदं प्राहुः सेश्वरञ्च तथापरे । वदन्ति विविधैर्भेदैः सुयुक्त्या स्थितिका
1.15
एते चान्ये च मुनयः संज्ञाभेदा पृथग्विधाः । शास्त्रेषु कथिता ह्येते लोकव्यामोहकार
1.16
एतद्विवादशीलानां मतं वक्तुं न शक्यते । भ्रमन्त्यस्मिञ्जनाः सर्वे मुक्तिमार्गबहिष
1.17
आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं योगशास्त्रं परं म
1.18
यस्मिन्ज्ञाते सर्वमिदं यातं भवति निश्चितम् । तस्मिन्परिश्रमः कार्यः किमन्यच्छास्
1.19
योगशास्त्रमिदं गोप्यमस्माभिः परिभाषितम् । सुभक्ताय प्रदातव्यं त्रैलोक्ये च महात्
1.20
कर्मकाण्डं ज्ञानकाण्डमिति वेदो द्विधा मतः । भवति द्विविधो भेदो ज्ञानकाण्डस्य कर्
1.21
द्विविधः कर्मकाण्डः स्यान्निषेधविधिपूर्वकः । निषिद्धकर्मकरणे पापं भवति निश्चितम्
1.22
त्रिविधो विधिकूटः स्यान्नित्यनैमित्तकाम्यतः । नित्येऽकृते किल्विषं स्यात्काम्ये
1.23
द्विविधन्तु फलं ज्ञेयं स्वर्गो नरक एव च । स्वर्गो नानाविधश्चैव नरकोपि तथा भवेत्
1.24
पुण्यकर्माणि वै स्वर्गो नरकः पापकर्माणि । (पुण्यकर्मणि, पापकर्मणि) कर्मबन्धमयी स
1.25
जन्तुभिश्चानुभूयन्ते स्वर्गे नानासुखानि च । नानाविधानि दुःखानि नरके दुःसहानि वै
1.26
पापकर्मवशाद्दुःखं पुण्यकर्मवशात्सुखम् । तस्मात्सुखार्थी विविधं पुण्यं प्रकुरुते
1.27
पापभोगावसाने तु पुनर्जन्म भवेत्खलु । पुण्यभोगावसाने तु नान्यथा भवति ध्रुवम्
1.28
स्वर्गेऽपि दुःखसम्भोगः परस्त्रीदर्शनाद्धुवम् । ततो दुःखमिदं सर्वं भवेन्नास्त्यत्
1.29
तत्कर्मकल्पकैः प्रोक्तं पुण्यं पापमिति द्विधा । पुण्यपापमयो बन्धो देहिनां भवति क
1.30
इहामुत्र फलद्वेषी सफलं कर्म सन्त्यजेत् । नित्यनैमित्तिकं सङ्गं त्यक्त्वा योगे प्
1.31
कर्मकाण्डस्य माहात्म्यं ज्ञात्वा योगी त्यजेत्सुधीः । पुण्यपापद्वयं त्यक्त्वा ज्ञ
1.32
आत्मा वाऽरेतु द्रष्टव्यः श्रोतव्येत्यादि यच्छ्रुतिः । (वा रे च) (श्रोतव्यो मन्तव
1.33
दुरितेषु च पुण्येषु यो धीर्वृत्तिं प्रचोदयात् । सोऽहं प्रवर्तते मत्तो जगत्सर्वं
1.34
सर्वं च दृश्यते मत्तः सर्वं च मयि लीयते । न तद्भिन्नोऽहमस्मीह मद्भिन्नो न तु किञ
1.35
जलपूर्णेष्वसङ्ख्येषु शरावेषु यथा भवेत् । एकस्य भात्यसङ्ख्यत्वं तद्वेदोऽत्र न दृश
1.36
उपाधिषु शरावेषु या सङ्ख्या वर्तते परा । सा सङ्ख्या भवति यथा रवौ चात्मनि तत्तथा
1.37
यथैकः कल्पकः स्वप्ने नानाविधितयेष्यते । जागरेऽपि तथाप्येकस्तथैव बहुधा जगत्
1.38
सर्पबुद्धिर्यथा रज्जौ शुक्तौ वा रजतभ्रमः । तद्वदेवमिदं विश्वं विवृतं परमात्मनि
1.39
रज्जुज्ञानाद्यथा सर्पो मिथ्यारूपो निवर्तते । आत्मज्ञानात्तथा याति मिथ्याभूतमिदं
1.40
रौप्यभ्रान्तिरियं याति शुक्तिज्ञानाद्यथा खलु । जगद्भ्रान्तिरियं याति चात्मज्ञाना
1.41
यथा वंशो रगभ्रान्तिर्भवेद्भेकवसाञ्जनात् । (यथा रज्जूगभ्रान्तिर्भवेद्भेदवशाज्जगत्
1.42
यथा दोषवशाच्छुक्लः पीतो भवति नान्यथा । अज्ञानदोषादात्मापि जगद्भवति दुस्त्यजम्
1.43
दोषनाशे यथा शुक्लो गृह्यते रोगिणा स्वयम् । शुक्लज्ञानात्तथाज्ञाननाशादात्मा तथा क
1.44
कालत्रयेऽपि न यथा रज्जुः सर्पो भवेदिति । तथात्मा न भवेद्विश्वं गुणातीतो निरञ्जनः
1.45
आगमाऽपायिनोऽनित्यानाश्यत्वेनेश्वरादयः । आत्मबोधेन केनापि शास्त्रादेतद्विनिश्चितम
1.46
यथा वातवशात्सिन्धावुत्पन्नाः फेनबुद्बुदाः । तथात्मनि समुद्भूतं संसारं क्षणभङ्गुर
1.47
अभेदो भासते नित्यं वस्तुभेदो न भासते । द्विधात्रिधादिभेदोऽयं भ्रमत्वे पर्यवस्यति
1.48
यद्भूतं यच्च भाव्यं वै मूर्तामूर्तं तथैव च । सर्वमेव जगदिदं विवृतं परमात्मनि
1.49
कल्पकैः कल्पिता विद्या मिथ्या जाता मृषात्मिका । एतान्मूलं जगदिदं कथं सत्यं भविष्
1.50
चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् । तस्मात्सर्वं परित्यज्य चैतेन्यं तु समाश्
1.51
घटस्याभ्यन्तरे बाह्ये यथाकाशं प्रवर्तते । तथात्माभ्यन्तरे बाह्ये ब्रह्माण्डस्य प
1.52
(तथात्माभ्यन्तरे बाह्ये कार्यवर्गेषु नित्यशः) सततं सर्वभूतेषु यथाकाशं प्रवर्तते
1.53
वर्तते सर्वभूतेषु यथाकाशं समन्ततः । तथात्माभ्यन्तरे बाह्ये कार्यवर्गेषु नित्यशः
1.54
असंलग्नं यथाकाशं मिथ्याभूतेषु पञ्चसु । असंलग्नस्तथात्मा तु कार्यवर्गेषु नान्यथा
1.55
ईश्वरादिजगत्सर्वमात्मव्याप्तं समन्ततः । (व्याप्यं) एकोऽस्ति सच्चिदानन्दः पूर्णो
1.56
यस्मात्प्रकाशको नास्ति स्वप्रकाशो भवेत्ततः । स्वप्रकाशो यतस्तस्मादात्मा ज्योतिः
1.57
अवच्छिन्नो यतो नास्ति देशकालस्वरूपतः । (अवछिन्नो) आत्मनः सर्वथा तस्मादात्मा पूर्
1.58
यस्मान्न विद्यते नाशः पञ्चभूतैर्वृथात्मकैः । तस्मादात्मा भवेन्नित्यस्तन्नाशो न भ
1.59
यस्मात्तदन्यो नास्तीह तस्मादेकोऽस्ति सर्वदा । यस्मात्तदन्यो मिथ्या स्यादात्मा सत
1.60
अविद्याभुतसंसारे दुःखनाशे सुखं यतः । ज्ञानादाद्यन्तशून्यं स्यात्तस्मादात्मा भवेत
1.61
यस्मान्नाशितमज्ञानं ज्ञानेन विश्वकारणम् । तस्मादात्मा भवेज्ज्ञानं ज्ञानं तस्मात्
1.62
कालतो विविधं विश्वं यदा चैव भवेदिदम् । तदेकोऽस्ति स एवात्मा कल्पनापथवर्जितः
1.63
बाह्यानि सर्वभूतानि विनाशं यान्ति कालतः । यतो वाचो निवर्तन्ते आत्मा द्वैतविवर्जि
1.64
न खं वायुर्न चाग्निश्च न जलं पृथिवी न च । नैतत्कार्यं नेश्वरादि पूर्णैकात्मा भवे
1.65
आत्मानमात्मनो योगी पश्यत्यात्मनि निश्चितम् । सर्वसङ्कल्पसंन्यासी त्यक्तमिथ्याभवग
1.66
आत्मानात्मनि चात्मानं दृष्ट्वानन्तं सुखात्म्कम् । विस्मृत्य विश्वं रमते समाधेस्त
1.67
मायैव विश्वजननी नान्या तत्त्वधियापरा । यदा नाश समायाति विश्वं नास्ति तदा खलु
1.68
हेयं सर्वमिदं यस्य मायाविलसितं यतः । ततो न प्रीतिविषयस्तनुवित्तसुखात्मकः
1.69
अरिर्मित्रमुदासीनस्त्रिविधं स्यादिदं जगत् । व्यवहारेषु नियतं दृश्यते नान्यथा पुन
1.70
प्रियाप्रियादिभेदस्तु वस्तुषु नियतस्फुटम् । आत्मोपाधिवशादेवं भवेत्पुत्रादि नान्य
1.71
मायाविलसितं विश्वं ज्ञात्वैवं श्रुतियुक्तितः । अध्यारोपापवादाभ्यां लयं कुर्वन्ति
1.72
कर्मजन्यं विश्वमिदं नत्वकर्मणि वेदना । निखिलोपाधिहीनो वै यदा भवति पूरुषः । तदा व
1.73
स हि कामयते पुरुषः सृजते च प्रजाः स्वयम् । (सो कामयतः) अविद्या भासते यस्मात्तस्म
1.74
शुद्धे ब्रह्मणि सम्बद्धो विद्यया सहजो भवेत् । (शुद्धे ब्रह्मत्व सम्बद्धो विद्यया
1.75
(ब्रह्मतेनसती याति यत आभासते नभः) तस्मात्प्रकाशते वायुर्वायोरग्निस्ततो जलम् । प्
1.76
आकाशाद्वायुराकाशः पवनादग्निसम्भवः । खेवाताग्नेर्जलं व्योमवाताग्नेर्वारितो मही
1.77
(खवाताग्नेर्जलं व्योमवाताग्निवारितो मही) खं शब्दलक्षणं वायुश्चञ्चलः स्पर्शलक्षणः
1.78
गन्धलक्षणिका पृथ्वी नान्यथा भवति ध्रुवम् । विषेशगुणाः स्फुरति यतः शास्त्रादिनिर्
1.79
शब्दैकगुण्माकाशं द्विगुणो वायुरुच्यते । (स्यादेकगुणमाकाशं) तथैव त्रिगुणं तेजो भव
1.80
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । एतत्पञ्चगुणा पृथ्वी कल्पकैः कल्प्यतेऽध
1.81
चक्षुषा गृह्यते रूपं गन्धो घ्राणेन गृह्यते । रसो रसनया स्पर्शस्त्वचा सङ्गृह्यते
1.82
चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् । अस्ति चेत्कल्पनेयं स्यान्नास्ति चेदस्ति
1.83
पृथ्वी शीर्णा जलं मग्ना जलं मग्नं च तेजसि । लीनं वायौ तथा तेजो व्योम्नि वातो लयं
1.84
विक्षेपावरणाशक्तिर्दुरन्ता दुःखरूपिणी । जडरूपा महामाया रजःसत्त्वतमोगुणा
1.85
सा मायावरणाशक्त्यावृताविज्ञानरूपिणी । दर्शयेज्जगदाकारं तं विक्षेपस्वभावतः
1.86
तमोगुणात्मिका विद्या या सा दुर्गा भवेत्स्वयम् । (तमो गुणाधिका) (दूर्गा) ईश्वरं त
1.87
सत्त्वाधिका च या विद्या लक्ष्मीः स्याद्दिव्यरूपिणी । चैतन्यं तदुपहितं विष्णुर्भव
1.88
रजोगुणाधिका विद्या ज्ञेया सा वै सरस्वती । कश्चित्स्वरूपो भवति ब्रह्मा तदुपधारकः
1.89
ईशाद्याः सकला देवा दृश्यन्ते परमात्मनि । शरीरादिजडं सर्वं सा विद्या तत्तथा तथा
1.90
एवंरूपेण कल्पन्ते कल्पका विश्वसम्भवम् । तत्त्वातत्त्वं भवन्तीह कल्पनान्येन नोदित
1.91
प्रमेयत्वादिरूपेण सर्वं वस्तु प्रकाश्यते । तथैव वस्तुनास्त्येव भासको वर्तकः परः
1.92
स्वरूपत्वेन रूपेण स्वरूपं वस्तु भाष्यते । विशेषशब्दोपादाने भेदो भवति नान्यथा
1.93
एकः सत्तापूरितानन्दरूपः पूर्णो व्यापी वर्तते नास्ति किञ्चित् । एतज्ज्ञानं यः करो
1.94
यस्यारोपापवादाभ्यां यत्र सर्वे लयं गताः । स एको वर्तते नान्यत्तच्चित्तेनावधार्यत
1.95
पितुरन्नमयात्कोषाज्जायते पूर्वकर्मणः । तच्छरीरंविर्दुदुःखं स्वप्राग्भोगाय सुन्दर
1.96
मांसास्थिस्नायुमज्जादिनिर्मितं भोगमन्दिरम् । केवलं दुःखभोगाय नाडी सन्ततिगुम्फितम
1.97
पारमैष्ठ्यमिदं गात्रं पञ्चभूतविनिर्मितम् । ब्रह्माण्डसंज्ञकं दुःखसुखभोगाय कल्पित
1.98
बिन्दुः शिवो रजः शक्तिरुभयोर्मिलनात्स्वयम् । स्वप्नभूतानि जायन्ते स्वशक्त्या जडर
1.99
तत्पञ्चीकरणात्स्थूलान्यसङ्ख्यानि चराचरम् । (समासतः) ब्रह्माण्डस्थानि वस्तूनि यत्
1.100
तद्भूतपञ्चकात्सर्वं भोगाय जीवसंज्ञिता । पूर्वकर्मानुरोधेन करोमि घटनामहम्
1.101
अजडः सर्वभूतान्वै जडस्थित्या भुनक्तितान् । (सर्वभूतस्था) जडात्स्वकर्मभिर्बद्धो ज
1.102
भोगायोत्पद्यते कर्म ब्रह्माण्डाख्ये पुनः पुनः । जीवश्च लीयते भोगावसाने च स्वकर्म
द्वितीयपटलः →