← Shiva Samhita
Shiva Samhita
द्वितीयपटलः
57 verses · Traditional
2.1
देहेऽस्मिन्वर्तते मेरुः सप्तद्वीपसमन्वितः । सरितः सागराः शैलाः क्षेत्राणि क्षेत्
2.2
ऋषयो मुनयः सर्वे नक्षत्राणि ग्रहास्तथा । पुण्यतीर्थानि पीठानि वर्तन्ते पीठदेवताः
2.3
सृष्टिसंहारकर्तारौ भ्रमन्तौ शशिभास्करौ । नभो वायुश्च वह्निश्च जलं पृथ्वी तथैव च
2.4
त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहतः । मेरुं संवेष्ट्य सर्वत्र व्यवहारः प्र
2.5
ब्रह्माण्डसंज्ञके देहे यथादेशं व्यवस्थितः । मेरुशृङ्गे सुधारश्मिर्बहिरष्टकलायुतः
2.6
वर्ततेऽहर्निशं सोऽपि सुधां वर्षत्यधोमुखः । ततोऽमृतं द्विधाभूतं याति सूक्ष्मं यथा
2.7
इडामार्गेण पुष्ट्यर्थं याति मन्दाकिनीजलम् । पुष्णाति सकलन्देहमिडामार्गेण निश्चित
2.8
एष पीयूषरश्मिर्हि वामपार्श्वे व्यवस्थितः
2.9
अपरः शुद्धदुग्धाभो हठात्कर्षति मण्डलात् । रन्ध्रमार्गेण सृष्ट्यर्थं मेरौ संयाति
2.10
मेरुमूले स्थितः सूर्यः कलाद्वादशसंयुतः । दक्षिणे पथि रश्मिभिर्वहत्यूर्ध्वं प्रजा
2.11
पीयूषरश्मिनिर्यासं धातूंश्च ग्रसति ध्रुवम् । समीरमण्डले सूर्यो भ्रमते सर्वविग्रह
2.12
एषा सूर्यपरामूर्तिर्निर्वाणं दक्षिणे पथि । वहते लग्नयोगेन सृष्टिसंहारकारकः
2.13
सार्धलक्षत्रयं नाड्यः सन्ति देहान्तरे नृणाम् । प्रधानभूता नाड्यस्तु तासु मुख्याश
2.14
सुषुम्णेडा पिङ्गला च गान्धारी हस्तिजिह्विका । कुहूः सरस्वती पूषा शङ्खिनी च पयस्व
2.15
वारुण्यलम्बुसा चैव विश्वोदरी यशस्विनी । एतासु तिस्रो मुख्याः स्युः पिङ्गलेडा सुष
2.16
तिस्रष्वेका सुषुम्णैव मुख्या सा योगिवल्लभा । (तिसृष्वेका) अन्यास्तदाश्रयं कृत्वा
2.17
नाड्यस्तु ता अधोवक्त्राः पद्मतन्तुनिभाः स्थिताः । (अधोवदनाः) पृष्ठवंशं समाश्रित्
2.18
तासां मध्ये गता नाडी चित्रा सा मम वल्लभा । ब्रह्मरन्ध्रं च तत्रैव सूक्ष्मात्सूक्
2.19
पञ्चवर्णोज्ज्वला शुद्धा सुषुम्णा मध्यचारिणी । (मध्यरूपिणी) देहस्योपाधिरूपा सा सु
2.20
दिव्यमार्गमिदं प्रोक्तममृतानन्दकारकम् । ध्यानमात्रेण योगीन्द्रो दुरितौघं विनाशये
2.21
गुदात्तुद्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः । चतुरङ्गगुलविस्तारमाधारं
2.22
तस्मिन्नाधारपद्मे च कर्णिकायां सुशोभना । त्रिकोणा वर्तते योनिः सर्वतन्त्रेषु गोप
2.23
तत्र विद्युल्लताकारा कुण्डली परदेवता । सार्द्धत्रिकरा कुटिला सुषुम्णामार्गसंस्थि
2.24
जगत्संसृष्टिरूपा सा निर्माणे सततोद्यता । वाचामवाच्या वाग्देवी सदा देवैर्नमस्कृता
2.25
इडानाम्नी तु या नाडी वाममार्गे व्यवस्थिता । सुषुम्णायां समाश्लिष्य दक्षनासापुटे
2.26
पिङ्गला नाम या नाडी दक्षमार्गे व्यवस्थिता । मध्यनाडीं समाश्लिष्य वामनासापुटे गता
2.27
इडापिङ्गलयोर्मध्ये सुषुम्णा या भवेत्खलु । षट्स्थानेषु च षट्शक्तिं षट्पद्मं योगिन
2.28
पञ्चस्थानं सुषुम्णाया नामानि स्युर्बहूनि च । प्रयोजनवशात्तानि ज्ञातव्यानीह शास्त
2.29
अन्या याऽस्त्यपरा नाडी मूलाधारात्समुत्थिता । रसनामेढ्रनयनं पादाङ्गुष्ठे च श्रोत्
2.30
कुक्षिकक्षाङ्गुष्ठकर्णं सर्वाङ्गं पायुकुक्षिकम् । लब्ध्वा तां वै निवर्तन्ते यथाद
2.31
एताभ्य एव नाडीभ्यः शाखोपशाखतः क्रमात् । सार्धं लक्षत्रयं जातं यथाभागं व्यवस्थितम
2.32
एता भोगवहा नाड्यो वायुसञ्चारदक्षकाः । ओतप्रोताभिसंव्याप्य तिष्ठन्त्यस्मिन्कलेवरे
2.33
सूर्यमण्डलमध्यस्थः कलाद्वादशसंयुतः । वस्तिदेशे ज्वलद्वह्निर्वर्तते चान्नपाचकः
2.34
एष वैश्वानरोग्निर्वै मम तेजोंशसम्भवः । (वैश्वानराग्निरेषो वै) करोति विविधं पाकं
2.35
आयुः प्रदायको वह्निर्बलं पुष्टिं ददाति सः । शरीरपाटवञ्चापि ध्वस्तरोगसमुद्भवः
2.36
तस्माद्वैश्वानराग्निञ्च प्रज्वाल्य विधिवत्सुधीः । तस्मिन्नन्नं हुनेद्योगी प्रत्य
2.37
ब्रह्माण्डसंज्ञके देहे स्थानानि स्युर्बहूनि च । मयोक्तानि प्रधानानि ज्ञातव्यानीह
2.38
नानाप्रकारनामानि स्थानानि विविधानि च । वर्तन्ते विग्रहे तानि कथितुं नैव शक्यते
2.39
इत्थं प्रकल्पिते देहे जीवो वसति सर्वगः । अनादिवासनामालाऽलङ्कृतः कर्मशृङ्खलः
2.40
नानाविधगुणोपेतः सर्वव्यापारकारकः । पूर्वार्जितानि कर्माणि भुनक्ति विविधानि च
2.41
यद्यत्सन्दृश्यते लोके सर्वं तत्कर्मसम्भवम् । सर्वा कर्मानुसारेण जन्तुर्भोगान्भुन
2.42
ये ये कामादयो दोषाः सुखदुःखप्रदायकाः । ते ते सर्वे प्रवर्तन्ते जीवकर्मानुसारतः
2.43
पुण्योपरक्तचैतन्ये प्राणान्प्रीणाति केवलम् । बाह्ये पुण्यमयं प्राप्य भोज्यवस्तु
2.44
ततः कर्मबलात्पुंसः सुखं वा दुःखमेव च । पापोपरक्तचैतन्यं नैव तिष्ठति निश्चितम्
2.45
न तद्भिन्नो भवेत्सोऽपि तद्भिन्नो न तु किञ्चन । मायोपहितचैतन्यात्सर्वं वस्तु प्रज
2.46
यथाकालेऽपि भोगाय जन्तूनां विविधोद्भवः । (यथाकालेपि) यथा दोषवशाच्छुक्तौ रजतारोपणं
2.47
स वासनाभ्रमोत्पन्नोन्मूलनातिसमर्थनम् । उत्पन्नञ्चेदीदृशं स्याज्ज्ञानं मोक्षप्रसा
2.48
साक्षाद्वैशेषदृष्टिस्तु साक्षात्कारिणि विभ्रमे । कारणं नान्यथा युक्त्या सत्यं सत
2.49
साक्षात्कारिभ्रमे साक्षात्साक्षात्कारिणि नाशयेत् । स हि नास्तीति संसारे भ्रमो नै
2.50
मिथ्याज्ञाननिवृत्तिस्तु विशेषदर्शनाद्भवेत् । अन्यथा न निवृत्तिः स्याद्दृश्यते रज
2.51
यावन्नोत्पद्यते ज्ञानं साक्षात्कारे निरञ्जने । तावत्सर्वाणि भूतानि दृश्यन्ते विव
2.52
यदा कर्मार्जितं देहं निर्वाणे साधनं भवेत् । तदा शरीरवहनं सफलं स्यान्न चान्यथा
2.53
यादृशी वासना मूला वर्तते जीवसङ्गिनी । (वर्त्तते) तादृशं वहते जन्तुः कृत्याकृत्यव
2.54
संसारसागरं तर्तुं यदीच्छेद्योगसाधकः । कृत्वा वर्णाश्रमं कर्म फलवर्जं तदाचरेत्
2.55
विषयासक्तपुरुषा विषयेषु सुखेप्सवः । वाचाभिरुद्धनिर्वाणा वर्तन्ते पापकर्मणि
2.56
आत्मानमात्मना पश्यन्न किञ्चिदिह पश्यति । तदा कर्मपरित्यागे न दोषोऽस्ति मतं मम
2.57
कामादयो विलीयन्ते ज्ञानादेव न चान्यथा । अभावे सर्वतत्त्वानां स्वयं तत्त्वं प्रका
← प्रथमपटलः
तृतीयपटलः →