← Shiva Svarodaya
Shiva Svarodaya
तत्त्ववर्णनम्
11 verses · Traditional
1.139
देव देव महादेव सर्वसंसारतारक । स्थितं त्वदीयहृदये रहस्यं वद मे प्रभो
1.140
स्वरज्ञानरहस्यात्तु न काचिच्चेष्टदेवता । स्वरज्ञानरतो योगी स योगी परमो मतः
1.141
पञ्चतत्त्वाद्भवेत्सृष्टिस्तत्त्वे तत्त्वं प्रलीयते । पञ्चतत्त्वं परं तत्त्वं तत्
1.142
तत्त्वानां नामविज्ञेयं सिद्धयोगेन योगिनाम्। भूतानां दुष्टचिह्नानि जानातीह स्वरोत
1.143
पृथिव्यापस्तथा तेजो वायुराकाशमेव च । पञ्चभूतात्मकं विश्वं यो जानाति स पूजितः
1.144
सर्वलोकस्थजीवानां न देहो भिन्नतत्त्वकः । भूर्लोकात्सत्यपर्यन्तं नाडीभेदः पृथक् प
1.145
वामे वा दक्षिणे वाऽपि उदयाः पञ्च कीर्त्तिताः । अष्टधा तत्त्वविज्ञानं श्रृणु वक्ष
1.146
प्रथमे तत्त्वसङ्ख्यानं द्वितीये श्वाससन्धयः । तृतीये स्वरचिह्नानि चतुर्थे स्थानम
1.147
पञ्चमे तस्य वर्णाश्च षष्ठे तु प्राण एव च । सप्तमे स्वादसंयुक्ता अष्टमे गतिलक्षणम
1.148
एवमष्टविधं प्राणं विषुवन्तं चराचरम्। स्वरात्परतरं देवि नान्यथा त्वम्बुजेक्षणे
1.149
निरीक्षितव्यं यत्नेन सदा प्रत्यूषकालतः । कालस्य वञ्चानार्थाय कर्म कुर्वन्ति योगि
← नाडीभेदः
षण्मुखीमुद्राकथनम् →