← Shivastotravali
Shivastotravali
भक्तिविलासाख्यं प्रथमं स्तोत्रम्
26 verses · Utpaladeva
1.1
न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् । एवमेव शिवभासस्तं नुमो भक्तिशालिनम्
1.2
आत्मा मम भवद्भक्तिसुधापानयुवाऽपि सन् । लोकयात्रारजोरागात्पलितैरिव धूसरः
1.3
लब्धत्वत्सम्पदां भक्तिमतां त्वत्पुरवासिनाम् । सञ्चारो लोकमार्गेऽपि स्यात्तयैव वि
1.4
साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे । किं न भक्तिमतां क्षेत्रं मन्त्रः क्व
1.5
जयन्ति भक्तिपीयूषरसासववरोन्मदाः । अद्वितीया अपि सदा त्वद्वितीया अपि प्रभो
1.6
अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते । तादृश एव ये सान्द्रभक्त्यानन्दरसाप
1.7
त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान् । इति स्वभावसिद्धां त्वद्भक्तिं जानञ्
1.8
नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः । वेद्यवेदकसङ्क्षोभेऽप्यसि भक्तैः सुद
1.9
अनन्तानन्दसरसी देवी प्रियतमा यथा । अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे
1.10
सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो । संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थि
1.11
भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या । दशा सा मां प्रति स्वामिन्नासवस्येव
1.12
भवद्भक्तिमहाविद्या येषामभ्यासमागता । विद्याविद्योभयस्यापि त एते तत्त्ववेदिनः
1.13
आमुलाद्वाग्लता सेयं क्रमविस्फारशालिनी । त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु
1.14
शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते । त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम
1.15
भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः । तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा
1.16
कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना । अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथ
1.17
प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम् । योगिभ्यो भक्तिभाजां यद्व्युत्थाने
1.18
न योगो न तपो नार्चाक्रमः कोऽपि प्रणीयते । अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस
1.19
सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम । प्रत्यक्षसर्वभावस्य चिन्तानामपि नश्यतु
1.20
शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा । समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप
1.21
शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ । अलौकिकरसास्वादे सुस्थैः को नाम गण्यते
1.22
मादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः । तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरो रस
1.23
ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः । त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः
1.24
भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः । ये न रागादिपङ्केऽस्मिँल्लिप्यन्ते पतिता
1.25
अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा । भवद्भक्तेर्विपक्वाया लताया इव केषुचित
1.26
चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः । त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम्
सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् →