← Shivastotravali
Shivastotravali
सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम्
29 verses · Utpaladeva
2.1
अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गमस्वरूपबहुरूपाय नमः संविन्मयाय ते
2.2
विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे । महानलाय भवते विश्वैकहविषे नमः
2.3
परमामृतसान्द्राय शीतलाय शिवाग्नये । कस्मैचिद्विश्वसम्प्लोषविषमाय नमोऽस्तु ते
2.4
महादेवाय रुद्राय शङ्कराय शिवाय ते । महेश्वरायापि नमः कस्मैचिन्मन्त्रमूर्तये
2.5
नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसावसेकविषमायापि मङ्गलाय शिवाग्नये
2.6
समस्तलक्षणायोग एव यस्योपलक्षणम् । तस्मै नमोऽस्तु देवाय कस्मैचिदपि शम्भवे
2.7
वेदागमविरुद्धाय वेदागमविधायिने । वेदागमसतत्त्वाय गुह्याय स्वामिने नमः
2.8
संसारैकनिमित्ताय संसारैकविरोधिने । नमः संसाररूपाय निःसंसाराय शम्भवे
2.9
मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये । क्षीणाग्रमध्यमूलाय नमः पूर्णाय शम्भवे
2.10
नमः सुकृतसम्भरविपाकः सकृदप्यसौ । यस्य नामग्रहस्तस्मै दुर्लभाय शिवाय ते
2.11
नमश्चराचराकारपरेतनिचयैः सदा । क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने
2.12
मायाविने विशुद्धाय गुह्याय प्रकटात्मने । सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे
2.13
ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये । आश्चर्यकरणीयाय नमस्ते सर्वशक्तये
2.14
तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः । यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे
2.15
मायामयजगत्सान्द्रपङ्कमध्याधिवासिने । अलेपाय नमः शम्भुशतपत्राय शोभिने
2.16
मङ्गलाय पवित्राय निधये भूषणात्मने । प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः
2.17
नमः सततबद्धाय नित्यनिर्मुक्तिभागिने । बन्धमोक्षविहीनाय कस्मैचिदपि शम्भवे
2.18
उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये । तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने
2.19
दक्षिणाचारसाराय वामाचाराभिलाषिणे । सर्वाचाराय शर्वाय निराचाराय ते नमः
2.20
यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः । योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै
2.21
मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे । नमो विततलावण्यवराय वरदाय ते
2.22
सदा निरन्तरानन्दरसनिर्भरिताखिलत्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे
2.23
सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् । त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः
2.24
मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः । आलिङ्गन्त्यपि यं तस्मै कस्मैचिद्भवते
2.25
परमामृतकोशाय परमामृतराशये । सर्वपारम्यपारम्यप्राप्याय भवते नमः
2.26
महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् । अपूर्वमोदसुभगं परामृतरसोल्वणम्
2.27
स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे । चित्रं नास्त्येव यत्रेश तन्नौमि तव श
2.28
सर्वाशङ्काशनिं सर्वालक्ष्मीकालानलं तथा । सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं
2.29
जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम् । जगतां परमेश्वरो भवान् परमेकः
← भक्तिविलासाख्यं प्रथमं स्तोत्रम्
प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् →