← Shivastotravali
Shivastotravali
पाशानुद्भेदनाम षोडशं स्तोत्रम्
30 verses · Utpaladeva
16.1
न किञ्चिदेव लोकानां भवदावरणं प्रति । न किञ्चिदेव भक्तानां भवदावरणं प्रति
16.2
अप्युपायक्रमप्राप्यः सङ्कुलोऽपि विशेषणैः । भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभास
16.3
जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च । भवद्भक्तिसुधापानमत्ताः केऽप्येव ये प्रभ
16.4
शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु । स्वादिष्ठपरकाष्ठाप्तत्वद्भक्तिरसनिर्भर
16.5
यथैवाज्ञातपूर्वोऽयं भवद्भक्तिरसो मम । घटितस्तद्वदीशान स एव परिपुष्यतु
16.6
सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे । केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु
16.7
भक्तिक्षीवोऽपि कुप्येयं भवायानुशयीय च । तथा हसेयं रुद्यां च रटेयं च शिवेत्यलम्
16.8
विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि । गम्भीरोऽपि विचित्तोऽपि भवेयं भक्तितः प
16.9
भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः । चिद्धर्मा यत्र न भवान्निर्विकल्प
16.10
भक्ता निन्दानुकरेऽपि तवामृतकणैरिव । हृष्यन्त्येवान्तराविद्धास्तीक्ष्णरोमाञ्चसूचि
16.11
दुःखापि वेदना भक्तिमतां भोगाय कल्पते । येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्र
16.12
यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे । निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं
16.13
तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम् । विलुप्यास्वादयन्त्येके वपुरच्छं सुधा
16.14
भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता । निष्प्रतिद्वन्द्वि वस्त्वेकं
16.15
मानावमानरागादिनिष्पाकविमलं मनः । यस्यासौ भक्तिमांल्लोकतुल्यशीलः कथं भवेत्
16.16
रागद्वेषन्धकारोऽपि येषां भक्तित्विषा जितः । तेषां महीयसामग्रे कतमे ज्ञानशालिनः
16.17
यस्य भक्तिसुधास्नानपानादिविधिसाधनम् । तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका
16.18
कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् । भवद्भक्तिमतां श्लाघ्या लोकयात्
16.19
मुक्तिसंज्ञा विपक्वाया भक्तेरेव त्वयि प्रभो । तस्यामाद्यदशारूढा मुक्तकल्पा वयं त
16.20
दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः । त्वत्पराची विभो मा भूदपि सौख्यपरम्पर
16.21
त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् । तदन्योन्याश्रयं युक्तं यथा
16.22
साकारो वा निराकरो वान्तर्वा बहिरेव वा । भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः
16.23
अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति । हर्षप्रकाशनफलमन्यदेव जगत्स्थितम्
16.24
गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे । त्वयि शम्भौ शिवे देव भक्तिर्नाम
16.25
भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा । तारं विरौमि यत्तीव्रा भक्तिर्मेऽस
16.26
यतोऽस्मि सर्वशोभानां प्रसवावनिरीश तत् । त्वयि लग्नमनर्घं स्याद्रत्नं वा यदि वा त
16.27
आवेदकादा च वेद्याद्येषां संवेदनाध्वनि । भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः
16.28
संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे । स्वामिन्परैस्तु तत्रैव ताम्यद्भिस्त्यक
16.29
पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया । प्रलयोत्सवसरभसया दृढमुपगूढं शिवं वन्दे
16.30
परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या । अपरापि तथैव ते ययेदं जगदाभात
← भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम्
दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् →