← Shivastotravali
Shivastotravali

दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम्

48 verses · Utpaladeva

17.1अहो कोऽपि जयत्येष स्वादुः पूजामहोत्सवः । यतोऽमृतरसास्वादमस्रूण्यपि ददत्यलम् 17.2व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः । भक्तानां त्वन्मयाः सर्वे स्वयं 17.3सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम् । त्वामर्चयन्त्यविश्रन्तं ये ममैतेऽधिदेवताः 17.4ध्यानायसतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः । पूजाविधिरिति ख्यातो भक्तानां स सदास् 17.5भक्तानां समतासारविषुवत्समयः सदा । त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम् 17.6यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो । पूजात्मासौ क्रिया तस्याः कर्तारस्त्वज्ज 17.7ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः । येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्प 17.8जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् । भक्तानां भवदभ्यर्चामहो यावद्यदा तदा 17.9भवत्पूजासुधास्वादसम्भोगसुखिनः सदा । इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः 17.10जगत्क्षोभैकजनके भवत्पूजामहोत्सवे । यत्प्राप्यं प्राप्यते किञ्चिद्भक्ता एव विदन्त 17.11त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः । कायवाक्चित्तचेष्टाद्यैरर 17.12भवत्पूजामयासङ्गसम्भोगसुखिनो मम । प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये 17.13भवत्पूजामृतरसाभोगलम्पटत विभो । विवर्धतामनुदिनं सदा च फलतां मम 17.14जगद्विलयसञ्जातसुधैकरसनिर्भरे । त्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा 17.15अशेषवासनाग्रन्थिविच्छेदसरलं सदा । मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव 17.16अधिष्ठायैव विषयानिमाः करणवृत्तयः । भक्तानां प्रेषयन्ति त्वत्पूजार्थममृतासवम् 17.17भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् । कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतम 17.18सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः । त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्पत 17.19अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम् । भवत्पूजामृतापानमदास्वादमहामुदम् 17.20दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः । तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते 17.21यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः । तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः 17.22भक्तानां विषयान्वेषाभासायासाद्विनैव सा । अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायत 17.23न प्राप्यमस्ति भक्तनां नाप्येषामस्ति दुर्लभम् । केवलं विचरन्त्येते भवत्पूजामदोन् 17.24अहो भक्तिभरोदारचेतसां वरद त्वयि । श्लाघ्यः पूजाविधिः कोऽपि यो न याच्ञाकलङ्कितः 17.25का न शोभा न को ह्लादः का समृद्धिर्न वापरा । को वा न मोक्षः कोऽप्येष महादेवो यदर् 17.26अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् । भवत्पूजोपयोगाय शरीरमिदमस्तु मे 17.27त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो । भूयासं जगतामीश एकः स्वच्छन्दचेष्टितः 17.28त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो । जायते शीतलस्वादु भवत्पूजामहासरः 17.29यथा त्वमेव जगतः पूजासम्भोगभाजनम् । तथैव भक्तिमानेव पूजासम्भोगभाजनम् 17.30कोऽप्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः । षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल 17.31नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा । पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि 17.32पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् । स्वात्मन्येव परे भक्ता मान्त 17.33राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे । सुधासवेन सकला जगती संविभज्यते 17.34पूजामृतापानमयो येषां भोगः प्रतिक्षणम् । किं देवा उत मुक्तास्ते किं वा केऽप्येव त 17.35पूजोपकरणीभूतविश्वावेशेन गौरवम् । अहो किमपि भक्तानां किमप्येव च लाघवम् 17.36पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः । भक्तानां क्षीरजलधिक्षोभादिव दिवौकसाम् 17.37पूजां केचन मन्यन्ते धेनुं कामदुधामिव । सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे 17.38भक्तानामक्षविक्षेपोऽप्येष संसारसम्मतः । उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम् 17.39भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि । चित्रं दैन्याय नो यावद्दीनतायाः परं फ 17.40उपचारपदं पूजा केषाञ्चित्त्वत्पदाप्तये । भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु 17.41अप्यसम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः । वितन्यमाना लभते प्रतिष्ठां त्वयि कामप 17.42स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् । शम्भो त्वमेव ललितः पूजानां किल भाजनम 17.43परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च । भवत्पूजाविधौ नाथ साधनानि भवन्तु मे 17.44अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो । अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते 17.45एषा पेशलिमा नाथ तवैव किल दृश्यते । विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यसे 17.46सदा मूर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः । उत्थेयान्मे प्रशस्तस्य भवत्पूजाम 17.47कामक्रोधाभिमानैस्त्वामुपहरीकृतैः सदा । येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽस्मि 17.48जयत्येष भवद्भक्तिभाजां पूजाविधिः परः । यस्तृणैः क्रियमाणोऽपि रत्नैरेवोपकल्पते