← Shivastotravali
Shivastotravali
प्रणयप्रसादाख्यं तृतीयं स्तोत्रम्
21 verses · Utpaladeva
3.1
सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः । तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय श
3.2
आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये । स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानु
3.3
अशेषविश्वखचितभवद्वपुरनुस्मृतिः । येषां भवरुजामेकं भेषजं ते सुखासिनः
3.4
सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः । चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः
3.5
प्रकाशां शीतलामेकां शुद्धां शशिकलामिव । दृशं वितर मे नाथ कामप्यमृतवाहिनीम्
3.6
त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः । इमाः कथं मे भगवन्नामृतास्वादसुन्दर
3.7
त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो । येषामहृदया एव तेऽवज्ञस्पदमीदृशाः
3.8
प्रभुणा भवता यस्य जातं हृदयमेलनम् । प्राभवीणां विभूतीनां परमेकः स भाजनम्
3.9
हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् । भवद्ध्यानामृतापूरो निम्नानिम्नभुवामिव
3.10
केव न स्याद्दशा तेषां सुखसम्भारनिर्भरा । येषामात्माधिकेनेश न क्वापि विरहस्त्वया
3.11
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः । स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः
3.12
नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् । ज्ञानं स्यात्किं तु विश्वैकपू
3.13
दुर्जयानामनन्तानां दुःखानां सहसैव ते । हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः
3.14
उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः । त्वं महापुरुषस्त्वेको निःशेषपुरुषाश
3.15
जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो । संसारार्णव एवैष येषां क्रीडामहासरः
3.16
आसतां तावदन्यानि दैन्यानीह भवज्जुषाम् । त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते
3.17
मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः । तत्त्वेन जप इत्यक्षमालया दिशसि क्वचि
3.18
सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो । त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः
3.19
सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् । अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे
3.20
जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः । विभुर्मिते च येनासि तेन सर्वोत्तमो भवान्
3.21
अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः । तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नप
← सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम्
सुरसोद्बलाख्यां चतुर्थं स्तोत्रम् →