← Shivastotravali
Shivastotravali

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम्

26 verses · Utpaladeva

5.1त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् । गलेपादिकया नाथ मां स्ववेश्म प्रवेशय 5.2भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः । अपाररभसारब्धनर्तनः स्यामहं कदा 5.3त्वदेकनाथो भगवन्नियदेवार्थये सदा । त्वदन्तर्वसतिर्मूको भवेयं मान्यथा बुधः 5.4अहो सुधानिधे स्वामिन्नहो मृष्ट त्रिलोचन । अहो स्वादो विरूपाक्षेत्येव नृत्येयमारट 5.5त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः । विजृम्भेय भवद्भक्तिमदिरामदघूर्णितः 5.6चित्तभूभृद्भुवि विभो वसेयं क्वापि यत्र सा । निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा 5.7यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् । बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं 5.8समुल्लसन्तु भगवन् भवद्भानुमरीचयः । विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते 5.9प्रसीद भगवन् येन त्वत्पदे पतितं सदा । मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव 5.10प्रहर्षाद्वाथ शोकाद्वा यदि कुङ्याद्धटादपि । बाह्यादथान्तराद्भावात्प्रकटीभव मे प् 5.11बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु मे । भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् 5.12त्वत्पादसंस्पर्शसुधासरसोऽन्तर्निमज्जनम् । कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे 5.13निवेदितमुपादत्स्व रागादि भगवन्मया । आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् 5.14अशेषभुवनाहारनित्यतृप्तः सुखासनम् । स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् 5.15अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः । नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि 5.16अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् । पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः 5.17आकाङ्क्षणीयमपरं येन नाथ न विद्यते । तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता 5.18हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते । पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम 5.19तत्तदपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम् । एतु मम मनसि यावन्नश्यतु दुर्वासनाग 5.20क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् । इत्थं विरोधरसिकं बोधय हितम 5.21विचरन्योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि । त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स 5.22वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु । सर्वत्र सर्वदा मे पुरःसरो भवतु भक्ति 5.23शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् । आस्वादयन् भवेयं कमपि महारसमपु 5.24स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि । अगणितापरचिन्मयगण्डिके प्रविचरे 5.25स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते । इति मतिः सुदृढा भवता 5.26किमपि नाथ कदाचन चेतसि स्फुरति तद्भवदङ्घ्रितलस्पृशाम् । गलति यत्र समस्तमिदं सुधास