← Shivastotravali
Shivastotravali
अध्वविस्फुरणाख्यं षष्ठं स्तोत्रम्
11 verses · Utpaladeva
6.1
क्षणमात्रमपीशान वियुक्तस्य त्वया मम । निबिडं तप्यमानस्य सदा भूया दृशः पदम्
6.2
वियोगसारे संसारे प्रियेण प्रभुणा त्वया । अवियुक्तः सदैव स्यां जगतापि वियोजितः
6.3
कायवाङ्मनसैर्यत्र यामि सर्वं त्वमेव तत् । इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे स
6.4
निर्विकल्पो महानन्दपूर्णो यद्वद्भवांस्तथा । भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम
6.5
भवदावेशतः पश्यन् भावं भावं भवन्मयम् । विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः
6.6
भगवन्भवतः पूर्णं पश्येयमखिलं जगत् । तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे
6.7
विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव । भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामि
6.8
स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः । सन्ततं भातु मे कोऽपि भवमध्याद्भवन्मण
6.9
कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः । श्रान्तस्तेनाप्रयासेन सर्वतस्त्
6.10
भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे । घटतामियति प्राप्ते किं नाथ न जितं मया
6.11
प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः । कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगया
← स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम्
विधुरविजयनामधेयं सप्तमं स्तोत्रम् →