← Shivastotravali
Shivastotravali

विधुरविजयनामधेयं सप्तमं स्तोत्रम्

9 verses · Utpaladeva

7.1त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः । परिहरतु सकृदियन्तं भेदाधीनं महानर्थ 7.2एतन्मम न त्विदमिति रागद्वेषादिनिगडदृढमूले । नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्त 7.3गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता । भगवन्नानन्दरसप्लुतास्तु मे चिन्म 7.4रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः । आप्याययतु रसैर्मां प्रवृद् 7.5त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम् । चित्तमिदं निःशेषितविषयविषासङ्गवासनावध 7.6त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम् । चेतोमणिर्विमुञ्चतुरागादिकतप्तवह्न 7.7तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः । हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प् 7.8भक्तिमदजनितविभ्रमवशेन पश्येयमविकलं करणैः । शिवमयमखिलं लोकं क्रियाश्च पूजामयी सकल 7.9मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान् । सूत्वा सुबद्धमूला ममेति बुद्धिं दृ