← Shivastotravali
Shivastotravali

स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम्

20 verses · Utpaladeva

9.1कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम् । प्रवर्तेत विहायान्यन्मम त्वत्स्पर्शन 9.2त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः । कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः 9.3गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा । पटपटिति विघटिताखिलमहार्गलस्त्वामुपैष् 9.4स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः । कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः 9.5कदा मे स्याद्विभो भूरि भक्त्यानन्दरसोत्सवः । यदालोकसुखानन्दी पृथङ्नामापि लप्स्यत 9.6ईश्वरमभयमुदारं पूर्णमकारणमपह्नुतात्मानम् । सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्याम 9.7कदा कामपि तां नाथ तव वल्लभतामियाम् । यया मां प्रति न क्वापि युक्तं ते स्यात्पलाय 9.8तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् । दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा व 9.9ज्ञानस्य परमा भूमिर्योगस्य परमा दशा । त्वद्भक्तिर्या विभो कर्हि पूर्ण मे स्यात्त 9.10सहसैवसाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम् । त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्याम 9.11परितः प्रसरच्छुद्धत्वदालोकमयः कदा । स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत् 9.12आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः । कदा भवेयं भगवंस्त्वद्भक्तगणनायकः 9.13नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम् । महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरित 9.14अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः । शयीयमिव शीताङ्घ्रिकुशेशययुगे कदा 9.15भक्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः । कदा पारं गमिष्यामि भविष्यामि कदा कृती 9.16आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः । हासोल्लासितवदनस्त्वत्स्पर्शरसं कदाप 9.17पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो । आस्वादयेय तावकभक्तोचितमात्मनो रूपम् 9.18लब्धाणिमादिसिद्धिर्विगलितसकलोपतापसन्त्रासः । त्वद्भक्तिरसायनपानक्रिढानिष्ठः कदास 9.19नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद्वाचि । यत्समनन्तरमेव स्फुरति पुरस्तावकी म 9.20गाढगाढभवदङ्घ्रिसरोजालिङ्गनव्यसनतत्परचेताः । वस्त्ववस्त्विदमयत्नत एव त्वां कदा सम