← Shivastotravali
Shivastotravali
अविच्छेदभङ्गाख्यं दशमं स्तोत्रम्
26 verses · Utpaladeva
10.1
न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् । माहेश्वराश्च लोकानामितरेषां समाश्च यत्
10.2
ये सदैवानुरागेण भवत्पादानुगामिनः । यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते
10.3
भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः । तत्र चेतरभोगाशा का लक्ष्मीर्यत्र ताव
10.4
क्षणमात्रसुखेनापि विभुर्येनासि लभ्यसे । तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते
10.5
आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि । सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः
10.6
बलिं यामस्तृतीयाय नेत्रायास्मै तव प्रभो । अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्म
10.7
तेनैव दृष्टोऽसि भवद्दर्शनाद्योऽतिहृष्यति । कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमी
10.8
येषां प्रसन्नोऽसि विभो यैर्लब्धं हृदयं तव । आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन
10.9
त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम् । ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः
10.10
आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् । त्वद्दूषणकथा येषां त्वदृते नोपपद्यत
10.11
बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः । त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्य
10.12
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः । अन्ये भ्रमन्ति भगवन्नात्मन्येवातिस
10.13
अपीत्वापि भवद्भक्तिसुधामनवलोक्य च । त्वामीश त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तव
10.14
भृत्या वयं तव विभो तेन त्रिजगतां यथा । बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम
10.15
परानन्दामृतमये दृष्टेऽपि जगदात्मनि । त्वयि स्पर्शरसेऽत्यन्ततरमुत्कण्ठितोऽस्मि ते
10.16
देव दुःखान्यशेषाणि यानि संसारिणामपि । धृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम्
10.17
सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये । सर्वथाप्यसतो नाथ युक्तास्य जगतः प्रथ
10.18
त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि । नृत्यन्ति पवनोद्धूताः कार्पासपिच
10.19
यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः । केन हीयेत जगतस्त्वदेकात्मतया प्रथा
10.20
वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि । त्वत्कोपपावकस्पर्शपूता ये परमेश्वर
10.21
महाप्रकाशवपुषि विस्पष्टे भवति स्थिते । सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम्
10.22
अविभागो भवानेव स्वरूपममृतं मम । तथापि मर्त्यधर्माणामहमेवैकमास्पदम्
10.23
महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् । प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः
10.24
सदसच्च भवानेव येन तेनाप्रयासतः । स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे
10.25
शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् । तर्प्योऽस्मि देवमुख्यानामपि येनामृतास
10.26
हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः । ग्रससे त्वं महावह्निः सर्वं स्थाव
← स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम्
औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् →