← Surya Siddhanta
Surya Siddhanta
पाताधिकारः
23 verses · Traditional
11.1
एकायनगतौ स्यातां सूर्यचन्द्रमसौ यदा । तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृत
11.2
विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिका । समास्तदा व्यतीपातो भगणार्धे तयोर्युत
11.3
तुल्यांशुजालसम्पर्कात्तयोस्तु प्रवहाहतः । तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते
11.4
विनाशयति पातोऽस्मिन्लोकानामसकृद्यतः । व्यतीपातः प्रसिद्धोऽयं सञ्ज्ञाभेदेन वैधृतः
11.5
स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः । सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते
11.6
भास्करेन्द्वोर्भचक्रान्तश्चक्रार्धावधिसंस्थयोः । दृक्तुल्यसाधितांशादियुक्तयोः स्
11.7
अथौजपदगस्येन्दोः क्रान्तिर्विक्षेपसंस्कृता । यदि स्यादधिका भानोः क्रान्तेः पातो
11.8
ऊना चेत्स्यात्तदा भावी वामं युग्मपदस्य च । पदान्यत्वं विधोः क्रान्तिविक्षेपाच्चे
11.9
क्रान्त्योर्ज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृते । तच्चापान्तरमर्धं वा यो
11.10
शोध्यं चन्द्राद्गते पाते तत्सूर्यगतिताडितम् । चन्द्रभुक्त्या हृतं भानौ लिप्तादि
11.11
तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात् । कर्मैतदसकृत्तावद्यावद्क्रान्ती समे तयोः
11.12
क्रान्त्योः समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौ । हीनेऽर्धरात्रिकाद्यातो भावी
11.13
स्थिरीकृतार्धरात्रेन्द्वोर्द्वयोर्विवरलिप्तिकाः । षष्टिघ्न्यश्चन्द्रभुक्त्याप्ता
11.14
रवीन्दुमानयोगार्धं षष्ट्या सङ्गुण्य भाजयेत् । तयोर्भुक्त्यन्तरेणाप्तं स्थित्यर्ध
11.15
पातकालः स्फुटो मध्यः सोऽपि स्थित्यर्धवर्जितः । तस्य सम्भवकालः स्यात्तत्संयुक्तोऽ
11.16
आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः । प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हित
11.17
एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम् । सम्भवस्तावदेवास्य सर्वकर्मविनाशकृत्
11.18
स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः । प्राप्यत सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा
11.19
रवीन्द्वोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा । द्विर्भवेद्धि तदा पातः स्याद
11.20
शसाङ्कार्कयुतेर्लिप्ता भभोगेन विभाजिताः । लब्धं सप्तदशान्तोऽन्यो व्यतीपातस्तृतीय
11.21
सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादा भसन्धयः । तदग्रभेष्वाद्यपादो गण्डान्तं
11.22
व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा । एतद्भसन्धित्रितयं सर्वकर्मसु वर्जयेत्
11.23
इत्येतत्परमं पुण्यं ज्योतिषां चरितं हितम् । र्हस्यं महदाख्यातं किमन्यच्छ्रोतुमिच
← शृङ्गोन्नत्यधिकारः
भूगोलाध्यायः →