← Surya Siddhanta
Surya Siddhanta

भूगोलाध्यायः

90 verses · Traditional

12.1अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिः । भक्त्या परमयाभ्यर्च्य पप्रच्छेदं मयासु 12.2भगवन्किम्प्रमाणा भूः किमाकारा किमाश्रया । किंविभागा कथं चात्र सप्तपातालभूमयः 12.3अहोरात्रव्यवस्थां च विदधाति कथं रविः । कथं पर्येति वसुधां भुवनानि विभावयन् 12.4देवासुराणामन्योन्यमहोरात्रं विपर्ययात् । किमथ तत्कथं वा स्याद्भानोर्भगणपूरणात् 12.5पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम् । तदेव किल सर्वत्र न भवेत्केन हेतुना 12.6दिनाब्दमासहोराणामधिपा न समाः कुतः । कथं पर्येति भगणः सग्रहोऽयं किमाश्रयः 12.7भूमेरुपर्युपर्यूर्ध्वाः किमुत्सेधाः किमन्तराः । ग्रहर्क्षकक्षाः किंमात्राः स्थित 12.8ग्रीष्मे तीव्रकरो भानुर्न हेमन्ते तथाविधः । कियती तत्करप्राप्तिर्मानानि कति किं 12.9एवं मे संशयं छिन्धि भगवन्भूतभावन । अन्यो न त्वामृते छेत्ता विद्यते सर्वदर्शिवान् 12.10इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यमस्य हि । रहस्यं परमध्यायं ततः प्राह पुनः 12.11शृणुष्वैकमना भूत्वा गुह्यमध्यात्म संज्ञितम् । प्रवक्ष्याम्यतिभक्तानां नादेयं विद 12.12वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः । अव्यक्तो निर्गुणः शान्तः पञ्चविंशात् 12.13प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः । सङ्कर्षणोऽपः सृष्ट्वादौ तासु वीर्यमवास 12.14तदण्डमभवद्धैमं सर्वत्र तमसावृतम् । तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः 12.15हिरण्यगर्भो भगवानेष छन्दसि पठ्यते । आदित्यो ह्यादिभूतत्वात्प्रसूत्या सूर्य उच्यत 12.16परं ज्योतिस्तमः पारे सूर्योऽयं सवितेति च । पर्येति भुवनानेष भावयन्भूतभावनः 12.17प्रकाशात्मा तमोहन्ता महानित्येष विश्रुतः । ऋचोऽस्य मण्डलं सामान्युस्त्रामूर्तिर् 12.18त्रयीमहोऽयं भगवाण्कालात्मा कालकृद्विभुः । सर्वात्मा सर्वगः सूक्ष्मः सर्वमस्मिन्प 12.19रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम् । छन्दांस्यश्वाः सप्त युक्ताः पर्यटत्ये 12.20त्रिपादममृतं गुह्यं पादोऽयं प्रकटोऽभवत् । सोऽहङ्कारं जगत्सृष्ट्यै ब्रह्माणमसृजत् 12.21तस्मै वेदान्वरान्दत्त्वा सर्वलोकपितामहम् । प्रतिष्ठाप्याण्डमध्येऽथ स्वयं पर्येति 12.22अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्तिभृत् । मनसश्चन्द्रमा जज्ञे सूर्योऽक्ष् 12.23मनसः खं ततो वायुरग्निरापो धरा क्रमात् । गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे 12.24अग्नीषोमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः । तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञि 12.25पुनर्द्वादशधात्मानं व्यभजद्राशिसञ्ज्ञकम् । नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी 12.26ततश्चराचरं विश्वं निर्ममे देवपूर्वकम् । ऊर्ध्वमध्याधरेभ्योऽथ स्रोतोभ्यः प्रकृतीः 12.27गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात् । विभागं कल्पयामास यथास्वं वेददर्शनात् 12.28ग्रहनक्षत्रतारानां भूमेर्विश्वस्य वा विभुः । देवासुरमनुष्याणां सिद्धानां च यथाक् 12.29ब्रह्माण्डमेतत्सुषिरं तत्रेदं भूर्भुवादिकम् । कटाहद्वितयस्येव सम्पुटं गोलकाकृति 12.30ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा 12.31मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः । परिभ्रमन्त्यधोऽधःस्थाः सिद्ध्हविद्याध 12.32मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्रानः परमां शक्तिं ब्रह्मणो धार 12.33तदन्तरपुटाः सप्त नागासुरसमाश्रयाः । दिव्यौषधिरसोपेता रम्याः पातालभूमयः 12.34अनेकरत्ननिचयो जाम्बूनदमयो गिरिः । भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः 12.35उपरिष्टात्स्थितास्तस्य सेन्द्रा देवा महर्षयः । अधस्तादसुरास्तद्वद्द्विषन्तोऽन्यो 12.36ततः समन्तात्परिधिः क्रमेणायं महार्णवः । मेखलेव स्थितो धात्र्या देवासुरविभागकृत् 12.37समन्तान्मेरुमध्यात्तु तुल्यभागेषु तोयधेः । द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर 12.38भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा 12.39याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी । पश्चिमे केतुमालाख्ये रोमकाख्या प्रकी 12.40उदक्सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता । तस्यां सिद्धा महात्मानो निवसन्ति गतव्य 12.41भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः । ताभ्यश्चोत्तरगो मेरुस्तावानेव सुर 12.42तासामुपरिगो याति विषुवस्थो दिवाकरः । न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते 12.43मेरोरुभयतो मध्ये ध्रुवतारे नभः स्थिते । निरक्षदेशसंस्थानामुभये क्षितिजाश्रये 12.44अतो नाक्षत्रोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः । नवतिर्लम्बकांशास्तु मेरावक्षा 12.45मेषादौ देवभागस्थे देवानां याति दर्शनम् । असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः 12.46अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः । देवभागे सुराणां तु हेमन्ते मन्दतान्यथा 12.47देवासुरा विषुवति क्षितिजस्थं दिवाकरम् । पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षप 12.48मेषादावुदितः सूर्यस्त्रीन्राशीनुदगुत्तरम् । सञ्चरन्प्रागहर्मध्यं पूरयेन्मेरुवासि 12.49कर्क्यादीन्सञ्चरंश्तद्वदह्नः पश्चार्धमेव सः । तुलादींस्त्रीन्मृगादींश्च तद्वदेव 12.50अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् । अहोरात्रप्रमाणं च भानोर्भगणपूरणात् 12.51दिनक्षपार्धमेतेषामयनान्ते विपर्ययात् । उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः 12.52अन्येऽपि समसूत्रस्था मन्यन्तेऽधः परस्परम् । भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश् 12.53सर्वत्रैव महीगोले स्वस्थानमुपरि स्थितम् । मन्यन्ते खे यतो गोलस्तस्य क्वोर्धवं क् 12.54अल्पकायतया लोकाः स्वस्थानात्सर्वतो मुखम् । पश्यन्ति वृत्तामप्येतां चक्राकारां वस 12.55सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम् । उपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान्मुखः 12.56अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वदी तथा । हानिवृद्धी सदा वामं सुरासुरविभागयोः 12.57मेषादौ तु सदा वृद्धिरुदगुत्तरतोऽधिका । देवांशे च क्षपाहानिर्विपरीतं तथासुरे 12.58तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे । देशक्रान्तिवशान्नित्यं तद्विज्ञानं पु 12.59भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम् । अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस् 12.60परमापक्रमादेवं योजनानि विशोधयेत् । भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः 12.61अयनान्ते विलोमेन देवासुरविभागयोः । नाडीषष्ट्या सकृदहर्निशाप्यस्मिन्सकृत्तथा 12.62तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः । परतो विपरीतोऽयं भगोलः परिवर्तते 12.63ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः । धनुर्मृगस्थः सविता देवभागे न दृश्यते 12.64तथा चासुरभागे तु मिथुने कर्कटे स्थितः । नष्टच्छाया महीवृत्तपादे दर्शनमादिशेत् 12.65एकज्यापक्रमानीतैर्योजनैः परिवर्जिते । भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजन 12.66धनुर्मृगालिकुम्भेषु संस्थितोऽर्को न दृश्यते । देवभागेऽसुराणां तु वृषाद्ये भचतुष् 12.67मेरौ मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम् । सकृदेवोदितं तद्वदसुराश्च तुलादिगम 12.68भूमण्डलात्पञ्चदशे भागे देवेऽथ वासुरे । उपरिष्टाद्व्रजत्यर्कः सौम्ययाम्यायनान्तगः 12.69तदन्तरालयोश्च्छाया याम्योदक्सम्भवत्यपि । मेरोरभिमुखं याति परतः स्वविभागयोः 12.70भद्राश्वोपरिगः कुर्याद्भारते तूदयं रविः । रात्र्यर्धं केतुमाले तु कुरावस्तमयं तद 12.71भारतादिषु वर्षेषु तद्वदेव परिभ्रमन् । मध्योदयार्धरात्र्यस्तकालान्कुर्यात्प्रदक्ष 12.72ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः । निरक्षाभिमुखं यातुर्विपरीते नतोन्न 12.73भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः । पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथ 12.74सकृदुद्गतमब्दार्धं पश्यन्त्यर्कं सुरासुराः । पितरः शशिगाः पक्षं स्वदिनं च नरा भु 12.75उपरिष्टस्य महती कक्षाल्पाधःस्थितस्य च । महत्या कक्षया भागा महान्तोऽल्पास्तथाल्पय 12.76कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः । ग्रहः कालेन महता मण्डले महति भ्रमन् 12.77स्वल्पयातो बहून्भुङ्क्ते भगणान्शीतदीधितिः । महत्या कक्षया गच्छन्ततः स्वल्पं शनैश 12.78मन्दादधः क्रमेण स्युश्चतुर्था दिवसाधिपाः । वर्षाधिपतयस्तद्वत्तृतीयाश्च प्रकीर्ति 12.79ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः । होरेशाः सूर्यतनयादधोऽधः क्रमशस्तथा 12.80भवेद्भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम् । सर्वोपरिष्टाद्भ्रमति योजनैस्तैर्भ 12.81कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया । आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः 12.82सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत् । कुवासरैर्विभज्याह्नः सर्वेषां प्राग्गति 12.83भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसङ्गुणा । स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता ग 12.84कक्षा भूकर्णगुणिता महीमण्डलभाजिता । तत्कर्णा भूमिकर्णोना ग्रहोच्च्यं स्वं दलीकृत 12.85खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः । ज्ञशीघ्रस्याङ्कखद्वित्रित्कृतशून्येन्द 12.86शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः । ततोऽर्कबुधशुक्राणां खखार्थैकसुरार्णवाः 12.87कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः । चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्य 12.88कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः । स्वर्भानोर्वेदतर्काष्टद्विशैलार्थखकुञ् 12.89पञ्चवाणाक्षिनागर्तुरसाद्र्यर्काः शनेस्ततः । भानां रविखशून्याङ्कवसुरन्ध्रशराश्विन 12.90खव्योमखत्रयखसाग्रषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः । ब्रह्माण्डसम्पुटपरिभ