← Yoga Yajnavalkya
Yoga Yajnavalkya
तृतीयोऽध्यायः
18 verses · Yajnavalkya
3.1
आसनान्यधुना वक्ष्ये शृणु गार्गि तपोधने । स्वस्तिकं गोमुखं पद्मं वीरं सिंहासनं तथ
3.2
भद्रं मुक्तासनं चैव मयूरासनमेव च । तथैतेषां वरारोहे पृथग्वक्ष्यामि लक्षणम्
3.3
जानोर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते
3.4
सीवन्यास्त्वात्मनः पार्श्वे गुल्फौ निक्षिप्य पादयोः । सव्ये दक्षिणगुल्फं तु दक्ष
3.5
एतच्च स्वस्तिकं प्रोक्तं सर्वपापप्रणाशनम् । सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे
3.6
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा । अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत
3.7
ऊर्वोरुपरि विप्रेन्द्रे कृत्वा पादतले उभे । पद्मासनं भवेदेतत्सर्वेषामपि पूजितम्
3.8
एकं पादमथैकस्मिन्विन्यस्योरुणि संस्थितम् । इतरस्मिंस्तथा चोरुं वीरासनमुदाहृतम्
3.9
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणं सव्यगुल्फेन दक्षिणेन
3.10
हस्तौ च जान्वोः संस्थाप्य स्वाङ्गुलीश्च प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत ना
3.11
सिंहासनं भवेदेतत्पूजितं योगिभिः सदा । गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्
3.12
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविष
3.13
सम्पीड्य सीवनीं सूक्ष्मां गुल्फेनैव तु सव्यतः । सव्यं दक्षिणगुल्फेन मुक्तासनमिती
3.14
मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य मुक्तासनमिदं
3.15
अवष्टभ्य धरां सम्यक् तलाभ्यां तु करद्वयोः । हस्तयोः कूर्परौ चापि स्थापयन्नाभिपार
3.16
समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः । मयूरासनमेतत्तु सर्वपापप्रणाशनम्
3.17
सर्वे चाभ्यन्तरा रोगा विनश्यन्ति विषाणि च । यमैश्च नियमैश्चैव आसनैश्च सुसंयुता
3.18
नाडीशुद्धिं च कृत्वा तु प्राणायामं ततः कुरु
← द्वितीयोऽध्यायः
चतुर्थोऽध्यायः →