← Yoga Yajnavalkya
Yoga Yajnavalkya
चतुर्थोऽध्यायः
72 verses · Yajnavalkya
4.1
श्रुत्वैतद्भाषितं वाक्यं याज्ञवल्क्यस्य धीमतः । पुनः प्राह महाभागा सभामध्ये तपस्
4.2
भगवन्ब्रूहि मे स्वामिन्नाडीशुद्धिं विधानतः । केनोपायेन शुद्धाः स्युर्नाडयः सर्वद
4.3
उत्पत्तिं चापि नाडीनां चारणं च यथाविधि । कन्दं च कीदृशं प्रोक्तं कति तिष्ठन्ति व
4.4
स्थानानि चैव वायूनां कर्माणि च पृथक्पृथक् । विज्ञातव्यानि यान्यस्मिन्देहे देहभृत
4.5
वक्तुमर्हसि तत्सर्वं त्वत्तो वेत्ता न विद्यते । इत्युक्तो भार्यया तत्र सम्यक् तद
4.6
गार्गीं तां सुसमालोक्य तत्सर्वं समभाषत । याज्ञवल्क्य उवाच । शरीरं तावदेवं हि षण्
4.7
विध्येतत्सर्वजन्तूनां स्वाङ्गुलीभिरिति प्रिये । शरीरादधिकः प्राणो द्वादशाङ्गुलमा
4.8
चतुर्दशाङ्गुलं केचिद्वदन्ति मुनिसत्तमाः । द्वादशाङ्गुल एवेति वदन्ति ज्ञानिनो नरा
4.9
आत्मस्थमनिलं विद्वानात्मस्थेनैव वह्निना । योगाभ्यासेन यः कुर्यात्समं वा न्यूनमेव
4.10
स एव ब्रह्मविच्छ्रेष्ठः स सम्पूज्यो नरोत्तमः । आत्मस्थवह्निनैव त्वं योगजेन द्विज
4.11
आत्मस्थं मातरिश्वानं योगाभ्यासेन निर्जय । देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम्
4.12
त्रिकोणं मनुजानां च चतुरस्रं चतुष्पदाम् । मण्डलं तत्पतङ्गानां सत्यमेतद्ब्रवीमि त
4.13
तन्मध्ये तु शिखा तन्वी सदा तिष्ठति पावकी । देहमध्यं च कुत्रेति श्रोतुमिच्छसि चेच
4.14
गुदात्तु द्व्यङ्गुलादूर्ध्वमधो मेढ्राच्च द्व्यङ्गुलात् । देहमध्यं तयोर्मध्यं मनु
4.15
चतुष्पदां तु हृन्मध्यं तिरश्चां तुन्दमध्यमम् । द्विजानां तु वरारोहे तुन्दमध्यमित
4.16
कन्दस्थानं मनुष्याणां देहमध्यान्नवाङ्गुलम् चतुरङ्गुलमुत्सेधमायामश्च तथाविधः
4.17
अण्डाकृतिवदाकारं भूषितं तत्त्वगादिभिः । चतुष्पदां तिरश्चां च द्विजानां तुन्दमध्य
4.18
तन्मध्यं नाभिरित्युक्तं नाभौ चक्रसमुद्भवः । द्वादशारयुतं तच्च तेन देहः प्रतिष्ठि
4.19
चक्रेऽस्मिन्भ्रमते जीवः पापपुण्यप्रचोदितः । तन्तुपञ्जरमध्यस्था यथा भ्रमति लूतिका
4.20
जीवस्य मूलचक्रेऽस्मिन्नधः प्राणश्चरत्यसौ । प्राणारूढो भवेज्जीवः सर्वभूतेषु सर्वद
4.21
तस्योर्ध्वं कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः । अष्टप्रकृतिरूपा सा अष्टधा कुण्
4.22
यथावद्वायुसञ्चारं जलान्नादीनि नित्यशः । परितः कन्दपार्श्वेषु निरुद्ध्यैव सदा स्थ
4.23
मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा । योगकाले त्वपानेन प्रबोधं याति साग्निना
4.24
स्फुरन्ती हृदयाकाशे नागरूपा महोज्ज्वला । वायुर्वायुसखेनैव ततो याति सुषुम्णया
4.25
कन्दमध्ये स्थिता नाडी सुषुम्णेति प्रकीर्तिता । तिष्ठन्ति परितः सर्वाश्चक्रेऽस्मि
4.26
नाडीनामपि सर्वासां मुख्यास्त्वेताश्चतुर्दश । इडा च पिङ्गला चैव सुषुम्णा च सरस्वत
4.27
वारुणी चैव पूषा च हस्तिजिह्वा यशस्विनी । विश्वोदरा कुहूश्चैव शङ्खिनी च पयस्विनी
4.28
अलम्बुषा च गान्धारी मुख्याश्चैताश्चतुर्दश । आसां मुख्यतमास्तिस्त्रस्तिसृष्वेकोत्
4.29
मुक्तिमार्गेति सा प्रोक्ता विश्वधारिणी । कन्दस्य मध्यमे गार्गि सुषुम्णा सुप्रतिष
4.30
पृष्ठमध्ये स्थिता नाडी सा हि मूर्ध्नि व्यवस्थिता । मुक्तिमार्गं सुषुम्णा सा ब्रह
4.31
अव्यक्ता सैव विज्ञेया सूक्ष्मा वैष्णवी स्मृता । इडा च पिङ्गला चैव तस्याः सव्ये च
4.32
इडा तस्याः स्थिता सव्ये दक्षिणे पिङ्गला स्थिता । इडायां पिङ्गलायां च चरतश्चन्द्र
4.33
इडायां चन्द्रमा ज्ञेयः पिङ्गलायां रविः स्मृतः । चन्द्रस्तामस इत्युक्तः सूर्यो रा
4.34
विषभागो रवेर्भागः सोमभागोऽमृतं स्मृतम् । तावेव धत्तः सकलं कालं रात्रिदिवात्मकम्
4.35
भोक्त्री सुषुम्णा कालस्य गुह्यमेतदुदाहृतम् । सरस्वती कुहूश्चैव सुषुम्णापार्श्वयो
4.36
गान्धारी हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः । कुहोश्च हस्तिजिह्वाया मध्ये विश्
4.37
यशस्विन्याः कुहोर्मध्ये वारुणी च प्रतिष्ठिता । पूषायाश्च सरस्वत्याः स्थिता मध्ये
4.38
गान्धार्याश्च सरस्वत्याःस्थिता मध्ये च शङ्खिनी । अलम्बुषा च विप्रेन्द्रे कन्दमध्
4.39
पूर्वभागे सुषुम्णाया आमेढ्रान्ते कुहूः स्थिता । अधश्चोर्ध्वं च कुण्डल्या वारुणी
4.40
यशस्विनी च याम्यस्था पादाङ्खष्ठान्तमिष्यते । पिङ्गला चोर्ध्वगा याम्ये नासान्तं व
4.41
याम्ये पूषा च नेत्रान्तं पिङ्गलायास्तु पृष्ठतः । पयस्विनी तथा गार्गि याम्यकर्णान
4.42
सरस्वती तथा चोर्ध्वमाजिह्वायाः प्रतिष्ठिता । आसव्यकर्णाद्विप्रेन्द्रे शङ्खिनी चो
4.43
गान्धारी सव्यनेत्रान्तमिडायाः पृष्ठतः स्थिता । इडा च सव्यनासान्तं सव्यभागे व्यवस
4.44
हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते । विष्वोदरा तु या नाडी तुन्दमध्ये व्य
4.45
अलम्बुषा महाभागे पायुमूलादधोगता । एतास्त्वन्याः समुत्पन्नाः शिराश्चान्याश्च तास्
4.46
यथाश्वत्थदले तद्वदब्जपत्रेषु वा शिराः । नाडीष्वेतासु सर्वासु विज्ञातव्यास्तपोधने
4.47
प्राणोऽपानः समानश्च उदानो व्यान एव च । नागः क्रूर्मोऽथ कृकरो देवदत्तो धनञ्जयः
4.48
एते नाडीषु सर्वासु चरन्ति दश वायवः । एतेषु वायवः पञ्च मुख्याः प्राणादयः स्मृताः
4.49
तेषु मुख्यतमावेतौ प्राणापानौ नरोत्तमे । प्राण एवैतयोर्मुख्यः सर्वप्राणभृतां सदा
4.50
आस्यनासिकयोर्मध्ये हृन्मध्ये नाभिमध्यमे । प्राणालय इति प्राहुः पादाङ्गुष्ठेऽपि क
4.51
अधश्चोर्ध्वं च कुण्डल्याः परीतः प्राणसञ्ज्ञकः । तिष्ठन्नेतेषु सर्वेषु प्रकाशयति
4.52
अपाननिलयं केचिद् गुदमेढ्रोरुजानुषु । उदरे वृषणे कट्यां जङ्घे नाभौ वदन्ति हि
4.53
गुदाग्न्यागारयोस्तिष्ठन्मध्येऽपानः प्रभञ्जनः । अधश्चोर्ध्वं च कुण्डल्याः प्रकाशय
4.54
व्यानः श्रोत्राक्षिमध्ये च कृकट्यां गुल्फयोरपि । घ्राणे गले स्फिजोर्देशे तिष्ठत्
4.55
उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि । समानः सर्वगात्रेषु सर्वं व्याप्य व्यवस्थि
4.56
भुक्तं सर्वरसं गात्रे व्यापयन्वह्निना सह । द्विसप्ततिसहस्रेषु नाडीमार्गेषु सञ्चर
4.57
समानवायुरेवैकः साग्निर्व्याप्य व्यवस्थितः । अग्निभिः सह सर्वत्र साङ्गोपाङ्गकलेवर
4.58
नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः । तुन्दस्थे जलमन्नं च रसानि च समीकृतम्
4.59
तुन्दमध्यगतः प्राणस्तानि कुर्यात्पृथक्पृथक् । पुनरग्नौ जलं स्थाप्य त्वन्नादीनि ज
4.60
स्वयं ह्यपानं सम्प्राप्य तेनैव सह मारुतः । प्रवाति ज्वलनं तत्र देहमध्यगतं पुनः
4.61
वायुना वातितो वह्निरपानेन शनैः शनैः । तदा ज्वलति विप्रेन्द्रे स्वकुले देहमध्यमे
4.62
ज्वालाभिर्ज्वलनस्तत्र प्राणेन प्रेरितस्ततः । जलमत्युष्णमकरोत्कोष्टमध्यगतं तदा
4.63
अन्नं व्यञ्जनसंयुक्तं जलोपरि समर्पितम् ततः सुपक्वमकरोद्वह्निः सन्तप्तवारिणा
4.64
स्वेदमूत्रे जलं स्यातां वीर्यरूपं रसो भवेत् । पूरीषमन्नं स्याद्गार्गि प्राणः कुर
4.65
समानवायुना सार्धं रसं सर्वासु नाडीषु । व्यापयञ्चछ्वासरूपेण देहे चरति मारुतः
4.66
व्योमरन्ध्रैश्च नवभिः विण्मूत्रादिविसर्जनम् कुर्वन्ति वायवः सर्वे शरीरेषु निरन्त
4.67
निःश्वासोच्छ्वासकासाश्च प्राणकर्मेति कीर्त्यते । अपानवायोः कर्मैतद्विण्मूत्रादिव
4.68
हानोपादानचेष्टादि व्यानकर्मेति चेष्यते । उदानकर्म तत्प्रोक्तं देहस्योन्नयनादि यत
4.69
पोषणादि समानस्य शरीरे कर्म कीर्तितम् । उद्गारादि गुणो यस्तु नागकर्मेति कीर्त्यते
4.70
निमीलनादि कूर्मस्य क्षुतं वै कृकरस्य च । देवदत्तस्य विप्रेन्द्रे तन्द्रीकर्मेति
4.71
धनञ्जयस्य शोफादि सर्वं कर्म प्रकीर्तितम् ज्ञात्वैवं नाडीसंस्थानं वायूनां स्थानकर
4.72
विधिनोक्तेन मार्गेण नाडीसंशोधनं कुरु
← तृतीयोऽध्यायः
पञ्चमोऽध्यायः →