← Yoga Yajnavalkya
Yoga Yajnavalkya

अष्टमोऽध्यायः

40 verses · Yajnavalkya

8.1अथेदानीं प्रवक्ष्यामि धारणा पञ्च तत्त्वतः । समाहितमनास्त्वं च शृणु गार्गि तपोधने 8.2यमादिगुणयुक्तस्य मनसः स्थितिरात्मनि । धारणेत्युच्यते सद्भिः शास्त्रतात्पर्यवेदिभ 8.3अस्मिन्ब्रह्मपुरे गार्गि यदिदं हृदयाम्बुजम् । तस्मिन्नेवान्तराकाशे यद्बाह्याकाशध 8.4एषा च धारणेत्युक्ता योगशास्त्रविशारदैः । तान्त्रिकैर्योगशास्त्रज्ञैर्विद्वद्भिश् 8.5धारणाः पञ्चधा प्रोक्तास्ताश्च सर्वाः पृथक् शृणु । भूमिरापस्तथा तेजो वायुराकाशमेव 8.6एतेषु पञ्चदेवानां धारणं पञ्चधोच्यते । पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते 8.7आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् । आपायोर्हृदयान्तं यद्वह्निस्थानं तदु 8.8आहृन्मध्याद्भ्रुवोर्मध्यं यावद्वायुकुलं स्मृतम् । आभ्रूमध्यात्तु मूर्धान्तमाकाशम 8.9अत्र केचिद्वदन्त्यन्ये योगपण्डितमानिनः । आजानोर्नाभिपर्यन्तमपांस्थानमिति द्विजाः 8.10नाभिमध्याद्गलान्तं यद्वह्निस्थानं तदुच्यते । आगलात्तु ललाटान्तं वायुस्थानमितीरित 8.11ललाटाद्रन्ध्रपर्यन्तमाकाशस्थानमुच्यते । अयुक्तमेतदित्युक्तं शास्त्रतात्पर्यवेदिभ 8.12यदि स्याज्ज्वलनस्थानं देहमध्ये वरानने । अयुक्ता कारणे वह्नौ कार्यरूपस्य संस्थिति 8.13कार्यकारणसंयोगे कार्यहानिः कथं भवेत् । दृष्टं तत्कार्यरूपेषु मृदात्मकघटादिषु 8.14पृथिव्यां धारयेद्गार्गि ब्रह्माणं परमेष्ठिनम् । विष्णुमप्स्वनले रुद्रमीश्वरं वाय 8.15सदाशिवं तथा व्योम्नि धारयेत्सुसमाहितः । पृथिव्यां वायुमास्थाय लकारेण समन्वितम् 8.16ध्यायन् चतुर्भुजाकारं ब्रह्माणं सृष्टिकारणम् । धारयेत्पञ्च घटिकाः पृथिवीजयमाप्नु 8.17वारुणे वायुमारोप्य वकारेण समन्वितम् । स्मरन्नारायणं सौम्यं चतुर्बाहुं किरीटिनम् 8.18शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् । धारयेत्पञ्च घटिकाः सर्वरोगैः प्रमुच्यते 8.19वहौ चानिलमारोप्य रेफाक्षरसमन्वितम् । त्र्यक्षं वरप्रदं रुद्रं तरुणादित्यसन्निभम् 8.20भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् । धारयेत्पञ्च घटिकाः वह्निनासौ न दह्यते 8.21मारुतं मारुतस्थाने यकारेण समन्वितम् । धारयेत्पञ्च घटिकाः वायुवद्व्योमगो भवेत् 8.22आकाशे वायुमारोप्य हकारोपरि शकरम् । बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् 8.23शुद्धस्फटिकसङ्काशं बालेन्दुघृतमौलिनम् । पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् 8.24सर्वायुधोद्यतकरं सर्वाभरणभूषितम् । उमार्धदेहं वरदं सर्वकारणकारणम् 8.25मनसा चिन्तयनत्तु मुहूर्तमपि धारयेत् । स एव मुक्त इत्युक्तस्तान्त्रिकेषु सुशिक्षि 8.26एतदुक्तं भवत्यत्र गार्गि ब्रह्मविदां वरे । ब्रह्मादिकार्यरूपाणि स्वे स्वे सम्हृत 8.27तस्मिन्सदाशिवे प्राणं चित्तं चानीय कारणे । युक्तचित्तस्तदात्मानं योजयेत्परमेश्वर 8.28अस्मिन्नर्थे वदन्त्यन्ये योगिनो व्रह्मविद्वराः । प्रणवेनैव कार्याणि स्वे स्वे सं 8.29प्रणवस्य तु नादान्ते परमानन्दविग्रहम् । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम 8.30चेतसा सम्प्रपश्यन्ति सन्तः संसारभेषजं त्वं तस्मात् प्रणवेनैव प्राणायामैस्त्रिभिस 8.31ब्रह्मादि कार्यरूपाणि स्वे स्वे सम्हृत्य कारणे । विशुद्धचेतसा पश्य नादान्ते परमे 8.32अस्मिन्नर्थे वदन्त्यन्ये योगिनो ब्रह्मविद्वराः । भिषग्वरा वरारोहे योगेषु परिनिष् 8.33शरीरं तावदेवं तु पञ्चभूतात्मकं खलु । तदेतत्तु वरारोहे वातपित्तकफात्मकम् 8.34वातात्मकानां सर्वेषां योगेष्वभिरतात्मनाम् । प्राणसंयमनेनैव शोषं याति कलेवरम् 8.35पित्तात्मकानां त्वचिरान्न शुष्यति कलेवरम् । कफात्मकानां कायश्च सम्पूर्णस्त्वचिरा 8.36धारणं कुर्वतस्त्वाग्नौ सर्वे नश्यन्ति वातजाः । पार्थिवांशे जलांशे च धारणं कुर्वत 8.37नश्यन्ति श्लेष्मजा रोगा वातजाश्चाचिरात्तथा । व्योमांशे मारुतांशे च धारणं कुर्वतः 8.38त्रिदोषजनिता रोगा विनश्यन्ति न संशयः । अस्मिन्नर्थे तथा ब्रूतामश्विनौ च भिषग्वरौ 8.39प्राणसंयमनेनैव त्रिदोषशमनं नृणाम् । तस्मात्त्वं च वरारोहे नित्यं कर्म समाचर 8.40यमादिभिश्च सम्युक्ता विधिवद्धारणां कुरु