← Yoga Yajnavalkya
Yoga Yajnavalkya
नवमोऽध्यायः
44 verses · Yajnavalkya
9.1
अथ ध्यानं प्रवक्ष्यामि शृणु गार्गि वरानने । ध्यानमेव हि जन्तूनां कारणं बन्धमोक्ष
9.2
ध्यानमात्मस्वरूपस्य वेदनं मनसा खलु । सगुणं निर्गुणं तच्च सगुणं बहुशः स्मृतम्
9.3
पञ्चोत्तमानि तेष्वाहुर्वैदिकानि द्विजोत्तमाः । त्रीणि मुख्यतमान्येषामेकमेव हि नि
9.4
मर्मस्थानानि नाडीनां संस्थानं च पृथक्पृथक् । वायूनां स्थानकर्माणि ज्ञात्वा कुर्व
9.5
एकं ज्योतिर्मयं शुद्धं सर्वगं व्योमवलुदम् । अव्यक्तमचलं नित्यमादिमध्यान्तवर्जितम
9.6
स्थूलं सूक्ष्ममनाकारमसंस्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यमप्रमेयमनौपमम्
9.7
आनन्दमजरं नित्यं सदसत्सर्वकारणम् । सर्वाधारं जगद्रूपममूर्तमजमव्ययम्
9.8
अदृश्यं दृश्यमन्तःस्थं बहिर्स्थं सर्वतोमुखम् । सर्वदृक्सर्वतःपादं सर्वस्पृक् सर्
9.9
ब्रह्म ब्रह्ममयोऽहं स्यामिति यद्वेदनं भवेत् । तदेतन्निर्गुणं ध्यानमिति ब्रह्मविद
9.10
अथवा परमात्मानं परमानन्दविग्रहम् । गुरूपदेशाद्विज्ञाय पुरुषं कृष्णपिङ्गलम्
9.11
ब्रह्म ब्रह्मपुरे चास्मिन्दहराम्बुजमध्यमे । अभ्यासात्सम्प्रपश्यन्ति सन्तं संसारभ
9.12
ह्रृत्पद्मेऽष्टदलोपेते कन्दमध्यात्समुत्थिते । द्वादशाङ्गुलनालेऽस्मिश्चतुरङ्गुलमु
9.13
प्राणायामैर्विकासिते केसरान्वितकर्णिके । वासुदेवं जगन्नाथं नारायणमजं हरिम्
9.14
चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् । किरीटकेयूरधरं पद्मपत्रनिभेक्षणम्
9.15
श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम् । पद्मोदरदलाभोष्ठं सुप्रसन्नं शुचिस्म
9.16
शुद्धस्फटिकसङकाशं पीतवाससमच्युतम् । पद्मच्छविपदद्वन्द्वं परमात्मानमव्ययम्
9.17
प्रभाभिर्भासयद्रूपं परितः पुरुषोत्तमम् । मनसालोक्य देवेशं सर्वभूतहृदि स्थितम्
9.18
सोऽहमात्मेति विज्ञानं सगुणं ध्यानमुच्यते । हृत्सरोरुहमध्येऽस्मिन्प्रकृत्यात्मककर
9.19
अष्टैश्वर्यदलोपेते विद्याकेसरसंयुते । ज्ञाननाले बृहत्कन्दे प्राणायामप्रबोधिते
9.20
विश्वार्चिषं महावह्निं ज्वलन्तं विश्वतोमुखम् । वैश्वानरं जगद्योनिं शिखातन्विनमीश
9.21
तापयन्तं स्वकं देहमापादतलमस्तकम् । निर्वातदीपवत्तस्मिन्दीपितं हव्यवाहनम्
9.22
दृष्ट्वा तस्य शिखामध्ये परमात्मानमक्षरम् । नीलतोयदमध्यस्थविद्युल्लेखेव भास्वरम्
9.23
नीवारशूकवद्रूपं पीताभं सर्वकारणम् । ज्ञात्वा वैश्वानरं देवं सोऽहमात्मेति या मतिः
9.24
सगुणेषूत्तमं ह्येतद्ध्यानं योगविदो विदुः । वैश्वानरत्वं सम्प्राप्य मुक्तिं तेनैव
9.25
अथवा मण्डले पश्येदादित्यस्य महाद्युतेः । आत्मानं सर्वजगतः पुरुषं हेमरूपिणम्
9.26
हिरण्यश्मश्रुकेशं च हिरण्यमयनखं हरिम् । कनकाम्बुजवद्वक्त्रं सृष्ठिस्थित्यन्तकारण
9.27
पद्मासनस्थितं सौम्यं प्रबुद्धाब्जनिभाननम् । पद्मोदरदलाभाक्षं सर्वलोकाभयप्रदम्
9.28
जानन्तं सर्वदा सर्वमुन्नयन्तं च धार्मिकान् । भासयन्तं जगत्सर्वं दृष्ट्वा लोकैकसा
9.29
सोऽहमस्मीति या बुद्धिः स च ध्यानेषु शस्यते । एष एव तु मोक्षस्य महामार्गस्तपोधने
9.30
ध्यानेनानेन सौरेण मुक्तिं यास्यन्ति सूरयः । भ्रूवोर्मध्येऽन्तरात्मानं भारूपं सर्
9.31
स्थाणुवन्मूर्धपर्यन्तं मध्यदेहात्मसमुत्थितम् । जगत्कारणमव्यक्तं ज्वलन्तममितौजसम्
9.32
मनसालोक्य सोऽहं स्यामित्येतध्यानमुत्तमम् । अथवा बद्धपर्यङ्के शितिलीकृतविग्रहे
9.33
शिव एव स्वयं भूत्वा नासाग्रारोपितेक्षणः । निर्विकारं परं शान्तं परमात्मानमीश्वरम
9.34
भारूपममृतं ध्यायेद्भ्रुवोर्मध्ये वरानने । सोऽहमेवेति या बुद्धिः सा च ध्यानेषु शस
9.35
अथवाष्टदलोपेते कर्णिकाकेसरान्विते । उन्निद्रहृदयाम्भोजे सोममण्डलमध्यमे
9.36
स्वात्मानमर्भकाकरं भोक्तृरूपिणमव्ययम् । सुधारसं विमुञ्चद्भिः शशिरश्मिभिरावृतम्
9.37
षोडशच्छदसंयुक्ताशिरः पद्मादधोमुखात् । निर्गतामृतधाराभिः सहस्राभिः समन्ततः
9.38
प्लावितं पुरुषं तत्र चिन्तयित्वा समाहितः । तेनामृतरसेनैव साङ्गोपाङ्गकलेवरे
9.39
अहमेव परं ब्रह्म परमात्माहमव्ययः । एवं यद्वेदनं तच्च सगुणं ध्यानमुच्यते
9.40
एवं ध्यानामृतं कुर्वन् षण्मासान्मृत्युजिद्भवेत् । वत्सरान्मुक्त एव स्याज्जीवन्ने
9.41
जीवन्मुक्तस्य न क्वापि दुःखावाप्तिः कथञ्चन । किं पुनर्नित्यमुक्तस्य मुक्तिरेव हि
9.42
तस्मात्त्वं च वरारोहे फलं त्यक्त्वेव नित्यशः । विधिवत्कर्म कुर्वाणा ध्यानमेव सदा
9.43
अन्यानपि बहून्याहुर्ध्यानानि मुनिसत्तमाः । मुख्यान्युक्तानि चैतेभ्यो जघन्यानीतरा
9.44
सगुणं गुणहीनं वा विज्ञायात्मानमात्मनि । सन्तः समाधिं कुर्वन्ति त्वमप्येवं सदा कु
← अष्टमोऽध्यायः
दशमोऽध्यायः →