← Bhrigu Sutras
Bhrigu Sutras

तन्वादिद्वादशभावस्थित भौमफलमाह

91 sutras · Maharshi Bhrigu

3.1देहे व्रणं भवति 3.2दृढगात्रः चौरबुभूषकः बृहन्नाभि रक्तपाणिः क्रूरो बलवान् मूर्खः कोपवान् सभानशौर्य 3.3स्वोच्चे स्वक्षेत्रे आरोग्यं दृढ्गात्रवान् राजसन्मान कीर्तिः 3.4दीर्घायुः 3.5पापशत्रुयुते अल्पायु 3.6स्वल्पपुत्रवान् वातशूलादिरोगः दुर्मुखः 3.7स्वोच्चे लग्नर्क्ष धनवान् 3.8विद्यावान् नेत्रविलासवान् 3.9तत्र पापयुते पापक्षेत्रे पापदृष्टियुते नेत्र रोगः 3.10विद्याहीनः लाभवान् 3.11पष्ठाधिपेनयुतः तिष्ठति चेन्नेत्रवैपरीत्यं भवति 3.12शुभदृष्टे परिहारः 3.13स्वोच्चे स्वक्षेत्रे विद्यावान् 3.14नेत्र विलासः 3.15तत्र पापयुतेक्षेत्रे पापदृष्टे नेत्ररोगः 3.16स्वस्त्री व्यभिचारिणी 3.17शुभदृष्टे न दोष अनुजहीनः 3.18द्रव्यलाभः 3.19राहुकेतुयुते वेश्यासङ्गमः 3.20भ्रातृद्वेषी क्लेशयुतः शुभगः 3.21अल्पसहोदरः 3.22पापयुते पापवीक्षणेन भ्रातृनाशः 3.23उच्चस्वक्षेत्रे शुभयुते भ्राता दीर्घायुः धैर्यविक्रमवान् 3.24युद्धे शूरः 3.25पापयुते मित्रक्षेत्रे धृतिमान् 3.26ग्रहच्छिद्रम् 3.27अष्टमे वर्षे पित्रारिष्टं मातृरोगी 3.28सौम्ययुते परगृहवासः 3.29निरोगशरीरी क्षेत्रहीनः धनधान्यहीनः जीर्णगृहवासः 3.30उच्चे स्वक्षेत्रे शुभयुते मित्रक्षेत्रे वाहनवान् क्षेत्रवान् मातृदीर्घायुः 3.31नीचर्क्षे पापमृत्युयुते मातृनाशः 3.32सौम्ययुते वाहन निष्ठावान् 3.33बन्धुजनद्वेषी स्वदेशपरित्यागी वस्त्रहीनः 3.34निर्धनः पुत्राभावः दुर्मार्गी राजकोपः 3.35षष्ठवर्षे आयुधेन किञ्चिदण्डकालः 3.36दुर्वासन ज्ञानशीलवान् 3.37मायावादी 3.38तीक्षणधीः 3.39उच्चे स्वक्षेत्रे पुत्रसमृद्धिः अन्नदानप्रियः 3.40राजाधिकारयोगः शत्रुपीडा 3.41पापयुते पापक्षेत्रे पुत्रनाशः 3.42बुद्धि भ्रंशादिरोगः 3.43रन्ध्रेशे पापयुते पापी 3.44वीरः 3.45दत्त पुत्र योगः 3.46प्रसिद्धः 3.47कार्यसमर्थः 3.48शत्रुहन्ता पुत्रवान् सप्तविंशति वर्षे कन्यकाश्वादि युत ऊढवान् 3.49शत्रुक्षयः 3.50पापर्क्षे पापयुते पूर्णफलानि 3.51वातशूलादिरोगः 3.52बुधक्षेत्र युते कुष्ठरोगः 3.53शुभदृष्टे परिहारः 3.54स्वदार पीडा 3.55पापार्ते पापयुतेन च स्वर्क्षे स्वदार हानिः 3.56शुभयुते जीवति पत्यौ स्त्रीनाशः 3.57विदेशपरः 3.58उच्चमित्र स्वक्षेत्र शुभयुते पापक्षेत्रे ईक्षणवशात्कलत्र नाशः 3.59अथवा चोरव्यभिचार मूलेन कलत्रान्तरं दुष्टस्त्रीसङ्गः 3.60भगचुम्बनवान 3.61चतुष्पाद मैथुनवान् मद्यपानाप्रियः 3.62मन्दयुते दृष्टे शिश्नचुम्बन परः 3.63केतुयुते रजस्वला स्त्री सम्भोगी 3.64तत्रशत्रुयुते बहुकलत्रनाशः 3.65अवीरः अहङ्कारी वा शुभदृष्टे न दोषः 3.66नेत्ररोगी अर्धायुः पित्रारिष्टं मूत्रकृच्छृरोगः 3.67अल्पपुत्रवान् वातशूलादिरोगः दारसुखयुतः 3.68शुभयुते देहारोग्यं दीर्घायु मुनष्यादि वृद्धिः 3.69पापक्षेत्रे पापयुते ईक्षणवशाद् वातक्षयादिरोगः मुत्रकृच्छृधिक्यं वा 3.70मध्यमायुः 3.71भावाधिपबलयुते पूणोयुः 3.72पित्रारिष्टम् 3.73भाग्यहीनः 3.74उच्चस्वक्षेत्रे गुरुदारगः 3.75जनवल्लभः 3.76भावाधिपे बलयुते भ्राता दीर्घायुः 3.77विशेष भाग्यवान् ध्यानशीलवान् गुरुभक्ति युतः 3.78पापयुते कर्मविघ्नवान् 3.79शुभयुते शुभक्षेत्रे कर्मसिद्धिः 3.80कीर्तिप्रतिष्ठावान् अष्टादशवर्षे द्रव्यार्जन समर्थः 3.81सर्वसमर्थः दृढगात्र चोरबुद्धिः पापयुते पापक्षेत्रे कर्मविघ्नकरः 3.82दुष्कृतिः 3.83भाग्येश कर्मेशयुते महाराजयौवराज्ये पट्टभिषेकवान् 3.84गुरुयुते गजान्तैश्वर्यवान् 3.85भूसमृद्धिमान् 3.86बहुकृत्यवान् धनी स्वगुणे राशुलाभवान् 3.87क्षेत्रेशयुते राजाधिपत्यवान् 3.88शुभद्वययुते माहाराजाधिपत्ययोगः 3.89भ्रातृवित्तवान् 3.90द्रव्याभावः वातपित्तदेहः 3.91पापयुते दाम्भिकः