← Bhrigu Sutras
Bhrigu Sutras

तन्वादि द्वादश भावस्थित बुधफलमाह

81 sutras · Maharshi Bhrigu

4.1विद्यावान् विवाहादिबहुश्रुतवान् 4.2अनेकदेशे सार्वभौमः मन्त्रवादी पिशाचोच्चाटन समर्थः मृदुभाषी विद्वान् क्षमीदयावान् 4.3सप्तविंशतिवर्षे तीर्थयात्रायोगः बहुलाभवान् बहुविद्यावान् 4.4पापयुते पापक्षेत्रे देहेरोगः पित्तपाण्डुरोगः 4.5शुभयुते शुभक्षेत्रे देहारोग्यम् 4.6स्वर्णकान्तिदेहः ज्योतिषशास्त्र पठितः अङ्गहीनः सज्जनद्वेषी नेत्ररोगी 4.7सप्तदशवर्षे भ्रातृणामन्योन्यकलहः 4.8वञ्चकः 4.9उच्चस्वक्षेत्रे भ्रातृसौख्यम् 4.10श्रेष्ठलोकं गमिष्यति 4.11पापयुते पापदृष्टयुते नीचर्क्षे पापलोकं गमिष्यति 4.12शय्यासुखवर्जितः क्षुद्रदेवतोपासकः 4.13पापमन्दादियुते वामनेत्रे हानिः षष्ठेशयुते नीचेशयुते वा न दोषः 4.14अपात्रव्ययवान् 4.15पापहा 4.16शुभयुते निश्चयेन धनधान्यादिमान् धार्मिक बुद्धिः 4.17अस्त्रवित् गणितशास्त्रज्ञः सौख्यवान् तर्कशास्त्रविद्दृढगात्रः 4.18पुत्र समृद्धिः वाचालकः वेदशास्त्रविचक्षणः सङ्कल्पसिद्धया संयुतः धनी गुणाढ्यः सद् 4.19बहुलाभप्रदः 4.20पापयुते पापक्षेत्रे अरिनीचगे विद्याविहीनः 4.21क्रूरत्ववान् पवनव्याधिः 4.22शुभयुति वीक्षणाद्धनी 4.23विद्यावान् 4.24गुरुणा युते वीक्षिते वा गणितशास्त्राधिकारेण सम्पन्नः 4.25भ्रातृमान् बहुसौख्यवान् 4.26पञ्चदशवर्षे क्षेत्रपुत्रयुतः 4.27धनलाभवान् 4.28सद्गुणशाली 4.29भावाधिपे बलयुते दीर्घायुः धैर्यवान् 4.30भावाधिपे भ्रातृपीडा भीतिमान् 4.31बलयुते भ्राता दीर्घायुः 4.32हस्तचापल्यवान् धैर्यवान् विशालाक्षः पितृमातृसौख्ययुतः 4.33ज्ञानवान् सुखी 4.34षोडशवर्षे द्रव्यापहाररूपेण अनेक वाहनवान् 4.35भावाधिपे बलयुते आन्दोलिका प्राप्तिः 4.36राहुकेतुशनियुते वाहनारिष्टवान् 4.37क्षेत्रसुखवर्जितः बन्धुकुलद्वेषी कपटी 4.38मातुलगण्डः मात्रादिसौख्यम्पुत्र विघ्नमेधावी मधुरभाषी बुद्धिमान् 4.39भावाधिपे पापयुते बलहीने पुत्रनाशः 4.40अपुत्र दत्तपुत्रप्राप्तिः पापकर्मी मन्त्रवादी 4.41राजपूज्यः विद्याविघ्नः दाम्भिकः विवादशूरः 4.42त्रिंशद्वर्षे बहुराजस्नेहो भवति 4.43पत्रादिलेखकः 4.44कुजर्क्षे नीलकुष्ठादिरोगी 4.45शनिराहुयुते केतुयुते वातशूलादिरोगी ज्ञातिशत्रुकलहः 4.46भावाधिपे बलयुते ज्ञातिप्रबलः 4.47अरिनीचर्क्षे ज्ञातिक्षयः 4.48मातृसौख्यं अश्वाद्यारूढो धर्मज्ञः उदारमतिः 4.49दिगन्तविश्रुतिकीर्तिः राजपूज्यः 4.50तत्रशुभयुते चतुर्विंशतिवर्षे आन्दोलिकाप्राप्तिः 4.51कलत्रमतिः 4.52अभक्ष्यभक्षणः 4.53भावेशे बलयुते एकदारवान् 4.54दारेशे दुर्बले पापे पापर्क्षे कुजादियुते कलत्रनाशः 4.55स्त्रीजातके पतिनाशः कलत्रं कुष्ठरोगी 4.56अरूपवत् 4.57आयुकारकः बहुक्षेत्रवान् 4.58सप्तपुत्रवान् 4.59पञ्चविंशतिवर्षे अनेकप्रतिष्ठासिद्धिः 4.60कीर्तिप्रसिद्धिः 4.61भावाधिपे बलयुतेपूर्णायुः 4.62अरिनीचपापयुते अल्पायुः 4.63अथवा उच्चस्वक्षेत्रे वा शुभयुते पूर्णायुः 4.64बहुप्रजासिद्धिः 4.65वेदशास्त्रविशारदः सङ्गीत पाठकः दाक्षिण्यवान् धार्मिकः प्रतापवान् बहुलाभवान् पितृ 4.66तपोध्यानशीलवान् 4.67सत्कर्मसिद्धिः धैर्यवान् बहुलकीर्तिमान् बहुचितवान् 4.68अष्टाविंशतिवर्षे नेत्ररोगवान् 4.69उच्चस्वक्षेत्रे गुरुयुतेऽग्निष्टोमादि बहुकर्मवान् 4.70अरिपापयुते मूढकर्मविघ्नवान् दुष्कृतिः अनाचारः 4.71बहुमङ्गलप्रदः 4.72अनेक प्रकारेण धनवान् 4.73एकोनविंशतिवर्षादुपरि क्षेत्रपुत्रधनवान् दयावान् 4.74पापर्क्षे पापयुते हीनमूलेन धनलोपः 4.75उच्चस्वक्षेत्रे शुभमूलेन धनवान् 4.76ज्ञानवान् 4.77वितरणशाली 4.78पापयुते चञ्चलञ्चित्तः 4.79नृपजनद्वेषी 4.80शुभयुतेन धर्ममूलेन धनव्ययः 4.81विद्याहीनः