← Bhrigu Sutras
Bhrigu Sutras

तन्वादिद्वादशभावस्थित गुरुफलमाह

58 sutras · Maharshi Bhrigu

5.1स्वक्षेत्रे शब्दशास्त्राधिकारी 5.2त्रिवेदी बहुपुत्रवान् सुखी चिरायुः ज्ञानवान् 5.3उच्चे पुर्णफलानि 5.4षोडशवर्षे महाराजयोगः 5.5अरिनीचपापानां क्षेत्रे पापयुते वा नीचकर्मवान् 5.6मनश्चलत्ववान् मध्यायुः पुत्रहीनः स्वजनपरित्यागी कृतघ्नः गर्विष्ठः बहुजनद्वेषी सा 5.7धनवान् बुद्धिमान् इष्टभाषी षोडशवर्षे धनधान्यसमृद्धिः बहुप्राबल्यवान् उच्चस्वक्षे 5.8पापयुते विद्याविघ्नः 5.9चोरवञ्चनवान् दुर्वचनः अनृतप्रियः 5.10नीचक्षेत्रे पापयुते मद्यपानी भ्रष्टः 5.11कुलनाशकः 5.12कलत्रान्तरयुक्तः पुत्रहीनः 5.13अतिलुब्धः भ्रातृवृद्धिः दाक्षिण्यवान् सङ्कल्प सिद्धिकरः 5.14बन्धुदोषकरः 5.15अष्टशत्रिन्द्वर्षे यात्रासिद्धिः 5.16भावाधिपे बलयुते भ्रातृदीर्घायुः 5.17भावाधिपे पापयुते भ्रातृनाशः 5.18धैर्यहीनः जडबुद्धिः दरिद्रः 5.19सुखी क्षेत्रवान् बुद्धिमान् क्षीरसमृद्धिः सन्मनाः मेधावी 5.20भावाधिपे बलयुते भृगुचन्द्रयुक्ते शुभवर्गेण नरवाहनयोगः 5.21बहुक्षेत्रः अश्ववाहनयोगः गृहविस्तरवान् 5.22पापयुतः पापिनः दृष्टवशात् क्षेत्रवाहनहीनः 5.23परगृहवासः क्षेत्रहीनः मातृनाशः बन्धुद्वेषी 5.24बुद्धिचातुर्यवान् विशालेक्षणः वाग्मी प्रतापी अन्नदानप्रियः कुलप्रियः अष्टादशवर्ष 5.25पुत्रसमृद्धिः 5.26भावाधिपे बलयुते पापक्षेत्रे अरिनीचगे पुत्रनाशः 5.27एकपुत्रवान् 5.28धनवान् 5.29राजद्वारे राजमूलेन धनव्ययः 5.30राहुकेतुयुते सर्पशापात् सुतक्षयः 5.31शुभदृष्टे परिहारः 5.32शत्रुक्षयः ज्ञातिवृद्धिः पौत्रादिदर्शनं व्रणशरीरः शुभयुते रोगाभावः 5.33पापयुते पापक्षेत्रे वातशैत्यादिरोगः 5.34मन्दक्षेत्रे राहुयुते महारोगः 5.35विद्या धनेशः बहुलाभप्रदः चिन्ताधिकः विद्यवान् पातिव्रत्य भक्तियुत कलत्रः 5.36भावाधिपे बलहीने राहुकेतुशनिकुजयुते पापवीक्षणाद्वाकलत्रान्तरम् 5.37शुभयुते उच्चस्वक्षेत्रे एकदारवान् कलत्रद्वारा बहुवित्तवान् सुखी चतुस्त्रिम्शद्वर 5.38अल्पायुः नीचकृत्यकारी 5.39पापयुते पतितः 5.40भावाधिपे शुभयुते रन्ध्रेदीर्घायुः 5.41बलहीने अल्पायुः 5.42पापयुते सप्तदशवर्षादुपरि विधवासङ्गमो भवति 5.43उच्चस्वक्षेत्रे दीर्घायुः बलहीनः अरोगी योगपौरुषः विद्वान् वेदशास्त्रविचक्षणः 5.44धार्मिकः 5.45तपस्वी साधुतारूढः धनिकः पञ्चत्रिंशद्यज्ञकर्ता पित्रुदीर्घायुः सत्कर्मसिद्धिः अने 5.46धार्मिक शुभकर्मकारी गीतापाठकः योग्यतावान् प्रौढकीर्तिः बहुजनपूज्यः 5.47भावाधिपे बलयुते विशेषक्रतुसिद्धिः 5.48पापयुते पापक्षेत्रे कर्मविघ्नः 5.49दुष्कृतियात्रा लाभहीनः 5.50विद्वान् धनवान् बहुलाभवान् द्वात्रिंशद्वर्षे अश्वारूढः 5.51अनेक प्रतिष्ठासिद्धिः 5.52शुभपापयुते गजलाभः 5.53भाग्यवृद्धिः चन्द्रयुते निक्षेपलाभः 5.54निर्धनः पठितः अल्पपुत्रः गणितशास्त्रज्ञः सम्भोगी 5.55ग्रन्थिव्रणी अयोग्यः 5.56शुभयुते उच्चस्वक्षेत्रे स्वर्गलोकप्राप्तिः 5.57पापयुते पापलोकप्राप्तिः 5.58धर्ममूलेन धनव्ययः ब्राह्मण स्त्री सम्भोगी गर्भिणी सङ्गमी