← Bhrigu Sutras
Bhrigu Sutras
तन्वादिद्वादश भावस्थित भृगुफलमाह
68 sutras · Maharshi Bhrigu
6.1
गणितशास्त्रज्ञः
6.2
दीर्घायुः दारप्रियः वस्त्रालङ्कारप्रियः रूपलावण्यप्रियः गुणवान्
6.3
स्त्रीप्रियः धनीविद्वान्
6.4
शुभयुते अनेक भूषणवान्
6.5
स्वर्णकान्तिदेहः
6.6
पापवीक्षितयुते नीचास्तगते चोरवञ्चनवान्
6.7
वातश्लेष्मादिरोगवान्
6.8
भावाधिपे राहुयुते बृह द्विद्विजो भवति
6.9
वाहने शुभयुते गजान्तैश्वर्यवान्
6.10
स्वक्षेत्रे महाराजयोगः
6.11
रन्धरे षष्ठाष्ठव्ययाधिपेशुक्रे दुर्बले स्त्रीद्वयम्
6.12
चञ्चलभाग्यः
6.13
क्रूरबुद्धिः
6.14
धनवान् कुटुम्बी सुभोजनः विनयवान्
6.15
नेत्रे विलासधनवान् सुमुखः
6.16
द्यावान् परोपकारी
6.17
द्वत्रिंषद्वर्षे उत्तमस्त्रीलाभः
6.18
भावाधिपे दुर्बलः दुःस्थाने नेत्रवैपरीत्यं भवति
6.19
शशियुते निशान्धः कुटुम्बहीनो नेत्ररोगी धननाशकरः
6.20
अतिलुब्धः दाक्षिण्यवान् भ्रातृवृद्धिः सङ्कल्पसिद्धिः पश्चात् सहोदराभावः
6.21
क्रमेण भ्रातृतत्परः वित्तभोगपरः
6.22
भावाधिपे बलयुते उच्चस्वक्षेत्रे भ्रातृवृद्धिः दुःस्थाने पापयुते भ्रातृनाशः
6.23
शोभनवान् बुद्धिमान् भ्रातृसौख्यं सुखी क्षमावान्
6.24
त्रिंशद्वर्षे अश्ववाहनप्राप्तिः
6.25
क्षीरसमृद्धिः भावाधिपे बलयुते अश्वान्दोलिकाकनकचतुरङ्गादिवृद्धिः
6.26
तत्रपापयुते पापक्षेत्रे अरिनीचगे बलहीने क्षेत्रवाहनहीनः
6.27
मातृक्लेशवान्
6.28
कलत्रान्तरभोगी
6.29
बुद्धिमान् मन्त्री सेनापतिः
6.30
मातामही दृश्वा यौवनदार पुत्रवान्
6.31
राजसन्मानी मन्त्री सुज्ञः स्त्रीप्रसन्नतावृद्धिः
6.32
तत्रपापयुते पापक्षेत्रे अरिनीचगे बुद्धिजाड्ययुतः पुत्राशः
6.33
तत्रशुभयुते बुद्धिमान् नीतिमत्पुत्रसिद्धिः वाहनयोगः
6.34
ज्ञातिप्रजासिद्धि शत्रुक्षयः पुत्रपौत्रवान्
6.35
अपात्रव्ययकारी मायावादी रोगवान् आर्यपुत्रवान्
6.36
भावाधिपे बलयुते शत्रुज्ञातिर्द्धिः शत्रुपापयुते नीचस्थे भावेशेन्दुस्थे शत्रुज्ञा
6.37
अतिकामुकः मुखचुम्बकः
6.38
अर्थवान् परदाररतः वाहनवान् सकलकार्यनिपुणः स्त्रीद्वेषी सत्प्रधान जनबन्धुकलत्रः
6.39
पापयुते शत्रुक्षेत्रे अरिनीचगे कलत्रनाशः
6.40
विवाहद्वयम्
6.41
बहुपापयुते अनेककलत्रान्तर प्राप्तिः
6.42
पुत्रहीनः
6.43
शुभयुते उच्चे स्वक्षेत्रे तुले कलत्रदेशे बहुवित्तवान्
6.44
कलत्रमूलेन बहुप्राबल्ययोगः स्त्रीगोष्ठिः
6.45
सुखी चतुर्थे वर्षे मातृगण्डः
6.46
अर्धायुः रोगीहितदारवान् असन्तुष्टः
6.47
शुभक्षेत्रे पुर्णायुः
6.48
तत्र पापयुते अल्पायुः
6.49
धार्मिकः तपस्वी अनुष्ठानपरः
6.50
पादेबहूत्तमलक्षणः धर्मी भोगवृद्धिः सुतदारवान्
6.51
पितृ दीर्घायुः
6.52
तत्र पापयुते पित्ररिष्टवान्
6.53
पापयुते पापक्षेत्रे अरिनीचगे धनहानिः
6.54
गुरुदारगः
6.55
शुभयुते भाग्यवृद्धिः
6.56
महाराजयोगः
6.57
वाहनकामेशयुते महाभाग्यवान् अश्वान्दोल्यादि वाहनवान्
6.58
वस्त्रालङ्कारप्रियः
6.59
बहुप्रतापवान् पापयुते कर्मविघ्नकरः गुरुबुधचन्द्रयुते अनेकवाहनारोहणवान्
6.60
अनेकऋतुसिद्धिः
6.61
दिगन्तविश्रुतकीर्तिः अनेकराजयोगः बहुभाग्यवान् वाचालः
6.62
विद्वान् बहुधनवान् भूमिलाभवान् दयावान् शुभयुते अनेक वाहनयोगः
6.63
पापयुते पापमूलाद्धनलाभः
6.64
शुभयुते शुभमुलात् नीचर्क्षे पापरन्ध्रेशादि योगे लाभहीनः
6.65
बहुलदारिद्र्यवान्
6.66
पापयुते विषयलुब्धपरः
6.67
शुभयुक्तश्चेत् बहुधनवान्
6.68
शय्याखट्वाङ्गादिसौख्यवान् शुभलोकप्राप्तिः पापयुते नरकप्राप्तिः
← तन्वादिद्वादशभावस्थित गुरुफलमाह
तन्वादिद्वादश भावस्थित शनिफलमाह →