Personalised to your chart
Verse 2.1
तत्र सांवत्सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवाग् अनसूयकः समः सुसंहिता उपचितगात्रसन्धिः अविकलश्चारुकरचरणनखनयनचिबुकदशनश्रवणललाटभ्रू उत्तमांगो वपुष्मान् गंभीरौदात्तघोषः । प्रायः शरीर आकारानुवर्त्तिनो (वर्तिनो) हि गुणा दोषाश्च भवन्ति । तत्र गुणाःशुचिः दक्षः प्रगल्भो वाग्ग्मी (वाग्मी) प्रतिभानवान् देशकालवित् सात्त्विको न पर्षद्भीरुः सहाध्यायिभिः अनभिभवनीयः कुशलोऽव्यसनी शान्तिकपौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतौअपवासनिरतः स्वतन्त्राश्चर्या उत्पादितप्रभावः पृष्टाभिधाय्यन्यत्र दैवात्ययाद् ग्रहगणितसंहिताहोराग्रन्थार्थवेत्ता इति । तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु पंचस्वेतेषु सिद्धान्तेषु युगवर्षायनऋतुमासपक्षाहोरात्रयाममुहूर्तनाडीविणाडीप्राणत्रुटित्रुट्याद्यवयव आदिकस्य (आद्यस्य) कालस्य क्षेत्रस्य च वेता । चतुर्णां च मानानां सौरसावननाक्षत्रचान्द्राणामधिमासकावमसंभवस्य च कारणाभिज्ञः । षष्ट्यब्दयुगवर्षमास- दिनहोरा अधिपतीनां प्रतिपत्ति (वि)च्छेदवित् । सौरादीनां च मानानामसदृशसदृश (सदृशासदृश) योग्यायोग्यत्वप्रतिपादनपटुः । सिद्धान्तभेदेऽपि अयननिवृत्तौ प्रत्यक्षं सममण्डललेखासम्प्रयोगाभ्युदितांशकानां (च) छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलः । सूर्यादीनां च ग्रहाणाम् शीघ्रमन्दयाम्यौत्तरनीचौच्चगतिकारणाभिज्ञः । सूर्यचन्द्रमसोश्च ग्रहणे ग्रहण आदिमोक्षकालदिक्प्रमाणस्थितिविमर्दवर्णादेशानां (वर्णदेशानां) अनागतग्रहसमागमयुद्धानामादेष्टा । प्रत्येकग्रहभ्रमणयोजनकक्ष्याप्रमाणप्रतिविषययोजनपरिच्छेदकुशलः (कुशलो) । भूभगणभ्रमणसंस्थानाद्यक्षावलंबकाहर्व्यासचरदलकालराश्युदयच्छायानाडीकरणप्रभृतिषु क्षेत्रकालकरणेष्वभिज्ञः । नानाचोद्यप्रश्नभेदौपलब्धिजनितवाक्सारोनिकषसन्तापाभिनिवेशैः (विशुद्धस्य) कनकस्यैवाधिकतरममलीकृतस्य (शास्त्रस्य) वक्ता तन्त्रज्ञो भवति (उक्तज् च) । न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः । निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ञेयः
Continue reading this verse
Unlock every reading in the Brihat Samhita, or the whole library with one yearly pass — new books arrive almost every month. The Shiva Sutras stay free for everyone, in every language.
A study reading of a classical Jyotish rule — it states what the text teaches. A chart is judged on many factors together, never on one verse.
Does this reading ring true?
Thank you — noted.
Get your free birth chart →
Sign in to ask how this verse applies to your own chart.
Go deeper
Sign in to ask your own questions of this verse — answered
in its light, and in the light of your chart.
Sign in →
Drag to pan · scroll to zoom · click a node to open it