← Brihat Samhita
अथातः सांवत्सरसूत्रं व्याख्यास्यामः

Verse 2.6

संहितापारगश्च दैवचिन्तको भवति । यत्र एते संहितापदार्थाः । दिनकरादीनाम् ग्रहाणां चाराः तेषु च तेषां प्रकृतिविकृतिप्रमाणवर्णकिरणद्युतिसंस्थानास्तमनौदयमार्गमार्गान्तरवक्रानुवक्रऋक्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेन देशेष्वगस्त्यचारः (अगस्तिचारः) । सप्तर्षिचारः । ग्रहभक्तयो नक्षत्रव्यूहग्रहशृंगाटकग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भलक्षणरोहिणीस्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनौल्कादिग्दाहक्षितिचलनसन्ध्यारागगन्धर्वनगररजोनिर्घातार्घकाण्डसस्यजन्मेन्द्रध्वजेन्द्रचापवास्तुविद्या अंगविद्यावायसविद्या अन्तरचक्रमृगचक्राश्वचक्रवातचक्रप्रासादलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायुर्वेदौदगार्गलनीराजनखञ्जन् (अक्) औत्पातशान्तिमयूरचित्रकघृतकंबलखड्गपट्टकृकवाकुकूर्मगोऽजाश्वैभपुरूष (पुरुष) स्त्रीलक्षणानि अन्तःपुरचिन्तापिटकलक्षणौपानच्छेदवस्त्रच्छेदचामरदण्डशयना (शय्या) आसनलक्षणरत्नपरीक्षा दीपलक्षणं दन्तकाष्ठाद्याश्रितानि (शुद्धाशुद्धानि) (शुभाशुभानि) निमित्तानि सामान्यानि च जगतः प्रतिपुरुषं पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तयितव्यानि । न चैकाकिना शक्यन्तेऽहर्निशमवधारयितुं निमित्तानि । तस्मात् सुभृतेनैव दैवज्ञेनान्येऽपि तद्विदश्चत्वारः कर्तव्याः (भर्तव्याः) । तत्रएकेनेन्द्री च आग्नेयी च दिग् अवलोकयितव्या । याम्या नैरृती चान्येनैवं वारुणी वायव्या चौत्तरा च एशानि चेति । यस्मादुल्कापातादीनि (निमित्तानि) शीघ्रमप (उप) (अभि) गच्छन्तीति । तस्याः (तेषां) च आकारवर्णस्नेहप्रमान आदिग्रहऋक्षौपघातादिभिः फलानि भवन्ति । उक्तं च गर्गेण महर्षिणा कृत्स्नांगोपांगकुशलं होरागणितनैष्ठिकम् । यो न पूजयते राजा स नाशमुपागच्छति

Continue reading this verse

Unlock every reading in the Brihat Samhita, or the whole library with one yearly pass — new books arrive almost every month. The Shiva Sutras stay free for everyone, in every language.

A study reading of a classical Jyotish rule — it states what the text teaches. A chart is judged on many factors together, never on one verse.

Get your free birth chart → Sign in to ask how this verse applies to your own chart.

Go deeper