← Gheranda Samhita
Gheranda Samhita
मुद्राप्रयोगो नाम तृतीयोपदेशः
100 verses · Gheranda
3.1
महामुद्रा नभोमुद्रा उड्डीयानं जलन्धरम् । मूलबन्धं महाबन्धं महावेधश्च खेचरी
3.2
विपरीतकरी योनिर्वज्रोली शक्तिचालनी । ताडागी माण्डुकीमुद्रा शाम्भवी पञ्चधारणा
3.3
अश्विनी पाशिनी काकी मातङ्गी च भुजङ्गिनी । पञ्चविंशतिमुद्राश्च सिद्धिदा इह योगिना
3.4
मुद्राणां पटलं देवि कथितं तव संनिधौ । येन विज्ञातमात्रेण सर्वसिद्धिः प्रजायते
3.5
गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् । प्रीतिदं योगिनां चैव दुर्लभं मरुतामपि
3.6
पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः । याम्यपादं प्रसार्याथ करे धृतपदाङ्गुलः । क
3.7
(पाठभेद पूरकैर्वायुं संपूर्य महामुद्रा निगद्यते । ततः शनैः शनैरेवं रेचयेत्तं न व
3.8
वलितं पलितं चैव जरां मृत्युं निवारयेत् । क्षयकासं गुदावर्तं प्लीहाजीर्णं ज्वरं त
3.9
यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा । ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत्पव
3.10
उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् । उड्डीनं कुरुते यस्मादविश्रान्तं महाख
3.11
अथोड्डीयानबन्धस्य फलकथनम् । समग्राद्बन्धनाद्ध्येतदुड्डीयानं विशिष्यते । उड्डीयान
3.12
कण्ठसङ्कोचनं कृत्वा चिबुकं हृदये न्यसेत् । जालन्धरे कृते बन्धे षोडशाधारबन्धनम् ।
3.13
सिद्धं जालन्धरं बन्धं योगिनां सिद्धिदायकम् । षण्मासमभ्यसेद्यो हि स सिद्धो नाऽत्र
3.14
पार्ष्णिना वामपादस्य योनिमाकुञ्चयेत्ततः । नाभिग्रन्थिं मेरुदण्डे संपीड्य यत्नतः
3.15
मेढ्रं दक्षिणगुल्फे तु दृढबन्धं समाचरेत् । नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रय
3.16
संसारसमुद्रं तर्तुमभिलषति यः पुमान् । विरले सुगुप्तो भूत्वा मुद्रामेतां समभ्यसेत
3.17
अभ्यासाद्बन्धनस्यास्य मरुत्सिद्धिर्भवेद्ध्रुवम् । साधयेद्यत्नतस्तर्हि मौनी तु वि
3.18
वामपादस्य गुल्फेन पायुमूलं निरोधयेत् । दक्षपादेन तद्गुल्फं संपीड्य यत्नतः सुधीः
3.19
शनैः शनैश्चालयेत्पार्ष्णिं योनिमाकुञ्चयेच्छनैः । जालन्धरे धारयेत्प्राणं महाबन्धो
3.20
महाबन्धः परो बन्धो जरामरणनाशनः । प्रसादादस्य बन्धस्य साधयेत्सर्ववाञ्चितम्
3.21
रूपयौवनलावण्यं नारीणां पुरुषं विना । मूलबन्धमहाबन्धौ महावेधं विना तथा
3.22
महाबन्धं समासाद्य उड्डानकुम्भकं चरेत् । महावेधः समाख्यातो योगिनां सिद्धिदायकः
3.23
महाबन्धमूलबन्धौ महावेधसमन्वितौ । प्रत्यहं कुरुते यस्तु स योगी योगवित्तमः
3.24
न मृत्युतो भयं तस्य न जरा तस्य विद्यते । गोपनीयः प्रयत्नेन वेधोऽयं योगिपुङ्गवैः
3.25
जिह्वाऽधो नाडीं सञ्चिन्नां रसनां चालयेत्सदा । दोहयेन्नवनीतेन लौहयन्त्रेण कर्षयेत
3.26
एवं नित्यं समभ्यासाल्लम्बिका दीर्घतां व्रजेत् । यावद्गच्छेद्भ्रुवोर्मध्ये तदा गच
3.27
रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत् । कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।
3.28
न च मूर्च्छा क्षुधा तृष्णा नैवाऽऽलस्यं प्रजायते । न च रोगो जरा मृत्युर्देवदेहः स
3.29
न चाग्निर्दहते गात्रं न शोषयति मारुतः । न देहं क्लेदयन्त्यापो दंशयेन्न भुजङ्गमः
3.30
लावण्यं च भवेद्गात्रे समाधिर्जायते ध्रुवम् । कपालवक्त्रसंयोगे रसना रसमाप्नुयात्
3.31
नानारससमुद्भूतमानन्दं च दिने दिने । आदौ लवणक्षारं च ततस्तिक्तकषायकम्
3.32
नवनीतं घृतं क्षीरं दधितक्रमधूनि च । द्राक्षारसं च पीयूषं जायते रसनोदकम्
3.33
नाभिमूले वसेत्सूर्यस्तालुमूले च चन्द्रमाः । अमृतं ग्रसते सूर्यस्ततो मृत्युवशो नर
3.34
ऊर्ध्वं च योजयेत्सूर्यं चन्द्रं च अध आनयेत् । विपरीतकरी मुद्रा सर्वतन्त्रेषु गोप
3.35
भूमौ शिरश्च संस्थाप्य करयुग्मं समाहितः । ऊर्ध्वपादः स्थिरो भूत्वा विपरीतकरी मता
3.36
मुद्रां च साधयेन्नित्यं जरां मृत्युं च नाशयेत् । स सिद्धः सर्वलोकेषु प्रलयेऽपि न
3.37
सिद्धासनं समासाद्य कर्णाक्षिनासिकामुखम् । अङ्गुष्ठतर्जनीमध्यानामादिभिश्च धारयेत्
3.38
काकीभिः प्राणं सङ्कृष्य अपाने योजयेत्ततः । षट्चक्राणि क्रमाद्ध्यात्वा हुं हंसमनु
3.39
चैतन्यमानयेद्देवीं निद्रिता या भुजङ्गिनी । जीवेन सहितां शक्तिं समुत्थाप्य पराम्ब
3.40
शक्तिमयः स्वयं भूत्वा परं शिवेन सङ्गमम् । नानासुखं विहारं च चिन्तयेत्परमं सुखम्
3.41
शिवशक्तिसमायोगादेकान्तं भुवि भावयेत् । आनन्दमानसो भूत्वा अहं ब्रह्मेति सम्भवेत्
3.42
योनिमुद्रा परा गोप्या देवानामपि दुर्लभा । सकृत्तु लाभसंसिद्धिः समाधिस्थः स एव हि
3.43
ब्रह्महा भ्रूणहा चैव सुरापी गुरुतल्पगः । एतैः पापैर्न लिप्येत योनिमुद्रानिबन्धना
3.44
यानि पापानि घोराणि उपपापानि यानि च । तानि सर्वाणि नश्यन्ति योनिमुद्रानिबन्धनात्
3.45
धरामवष्टभ्य करयोस्तलाभ्यामूर्ध्वं क्षिपेत्पादयुगं शिरः खे । शक्तिप्रबोधाय चिरजीव
3.46
अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम् । अयं हितप्रदो योगो योगिनां सिद्धिदायक
3.47
एतद्योगप्रसादेन बिन्दुसिद्धिर्भवेद्ध्रुवम् । सिद्धे बिन्दौ महायत्ने किं न सिध्यत
3.48
भोगेन महता युक्तो यदि मुद्रां समाचरेत् । तथाऽपि सकला सिद्धिस्तस्य भवति निश्चितम्
3.49
मूलाधारे आत्मशक्तिः कुण्डली परदेवता । शयिता भुजगाऽऽकारा सार्धत्रिवलयाऽन्विता
3.50
यावत्सा निद्रिता देहे तावज्जीवः पशुर्यथा । ज्ञानं न जायते तावत्कोटियोगं समभ्यसेत
3.51
उद्घाटयेत्कवाटं च यथा कुञ्चिकया हठात् । कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं प्रभे
3.52
नाभिं संवेष्ट्य वस्त्रेण न च नग्नो बहिः स्थितः । गोपनीयगृहे स्थित्वा शक्तिचालनमभ
3.53
वितस्तिप्रमितं दीर्घं विस्तारे चतुरङ्गुलम् । मृदुलं धवलं सूक्ष्मं वेष्टनाम्बरलक्
3.54
भस्मना गात्रं संलिप्य सिद्धासनं समाचरेत् । नासाभ्यां प्राणमाकृष्य अपाने योजयेद्ब
3.55
तावदाकुञ्चयेद्गुह्यं शनैरश्विनिमुद्रया । यावद्गच्छेत्सुषुम्णायां वायुः प्रकाशयेद
3.56
तदा वायुप्रबन्धेन कुम्भिका च भुजङ्गिनी । बद्धश्वासस्ततो भूत्वा ऊर्ध्वमार्गं प्रप
3.57
विना शक्तिचालनेन योनिमुद्रा न सिध्यति । आदौ चालनमभ्यस्य योनिमुद्रां समभ्यसेत्
3.58
इति ते कथितं चण्डकपाले शक्तिचालनम् । गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत्
3.59
मुद्रेयं परमा गोप्या जरामरणनाशिनी । तस्मादभ्यसनं कार्यं योगिभिः सिद्धिकाङ्क्षिभि
3.60
नित्यं योऽभ्यसते योगी सिद्धिस्तस्य करे स्थिता । तस्य विग्रहसिद्धिः स्याद्रोगाणां
3.61
उदरं पश्चिमोत्तानं कृत्वा च तडागाकृति । तडागी सा परामुद्रा जरामृत्युविनाशिनी
3.62
मुखं समुद्रितं कृत्वा जिह्वामूलं प्रचालयेत् । शनैर्ग्रसेदमृतं तन्माण्डुकीं मुद्र
3.63
वलितं पलितं नैव जायते नित्ययौवनम् । न केशे जायते पाको यः कुर्यान्नित्यमाण्डुकीम्
3.64
नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत् । सा भवेच्छाम्भवी मुद्रा सर्वतन्त्रेष
3.65
वेदशास्त्रपुराणानि सामान्यगणिका इव । इयं तु शाम्भवी मुद्रा गुप्ता कुलवधूरिव
3.66
स एव आदिनाथश्च स च नारायणः स्वयम् । स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शाम
3.67
सत्यं सत्यं पुनः सत्यं सत्यमुक्तं महेश्वरः । शाम्भवीं यो विजानीयात्स च ब्रह्म न
3.68
कथिता शाम्भवी मुद्रा शृणुष्व पञ्चधारणाम् । धारणानि समासाद्य किं न सिध्यति भूतले
3.69
अनेन नरदेहेन स्वर्गेषु गमनाऽऽगमम् । मनोगतिर्भवेत्तस्य खेचरत्वं न चाऽन्यथा
3.70
यत्तत्त्वं हरितालदेशरचितं भौमं लकाराऽन्वितं वेदास्रं कमलासनेन सहितं कृत्वा हृदि
3.71
पार्थिवीधारणामुद्रां यः करोति च नित्यशः । मृत्युञ्जयः स्वयं सोऽपि स सिद्धो विचरे
3.72
अथाऽऽम्भसीधारणामुद्राकथनम् । शङ्खेन्दुप्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं तत
3.73
अथाऽऽम्भसीधारणामुद्रायाः फलकथनम् । आम्भसीं परमां मुद्रां यो जानाति स योगवित् । ज
3.74
इयं तु परमा मुद्रा गोपनीया प्रयत्नतः । प्रकाशात्सिद्धिहानिः स्यात्सत्यं वच्मि च
3.75
अथाऽऽग्नेयीधारणामुद्राकथनम् । यन्नाभिस्थितमिन्द्रगोपसदृशं बीजं त्रिकोणाऽन्वितं त
3.76
अथाऽऽग्नेयीधारणामुद्रायाः फलकथनम् । प्रदीप्ते ज्वलिते वह्नौ यदि पतति साधकः । एतन
3.77
यद्भिन्नाऽञ्जनपुञ्जसंनिभमिदं धूम्राऽवभासं परं तत्त्वं सत्त्वमयं यकारसहितं यत्रेश
3.78
इयं तु परमा मुद्रा जरामृत्युविनाशिनी । वायुना म्रियते नाऽपि खे गतेश्च प्रदायिनी
3.79
शठाय भक्तिहीनाय न देया यस्य कस्यचित् । दत्ते च सिद्धिहानिः स्यात्सत्यं वच्मि च च
3.80
अथाऽऽकाशीधारणामुद्राकथनम् । यत्सिन्धौ वरशुद्धवारिसदृशं व्योमं परं भासितं तत्त्वं
3.81
अथाऽऽकाशीधारणामुद्रायाः फलकथनम् । आकाशीधारणां मुद्रां यो वेत्ति स च योगवित् । न
3.82
अथाऽश्विनीमुद्राकथनम् । आकुञ्चयेद्गुदद्वारं प्रकाशयेत्पुनः पुनः । सा भवेदश्विनी
3.83
अथाऽश्विनीमुद्रायाः फलकथनम् । अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी । बलपुष्टिकरी
3.84
कण्ठपृष्टे क्षिपेत्पादौ पाशवद्दृढबन्धनम् । सैव स्यात्पाशिनी मुद्रा शक्तिप्रबोधका
3.85
पाशिनी महती मुद्रा बलपुष्टिविधायिनी । साधनीया प्रयत्नेन साधकैः सिद्धिकाङ्क्षिभिः
3.86
काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः । काकी मुद्रा भवेदेषा सर्वरोगविनाशिनी
3.87
काकीमुद्रा परा मुद्रा सर्वतन्त्रेषु गोपिता । अस्याः प्रसादमात्रेण न रोगी काकवद्भ
3.88
कण्ठमग्ने जले स्थित्वा नासाभ्यां जलमाहरेत् । मुखान्निर्गमयेत्पश्चात्पुनर्वक्त्रे
3.89
नासाभ्यां रेचयेत्पश्चात्कुर्यादेवं पुनः पुनः । मातङ्गिनी परा मुद्रा जरामृत्युविन
3.90
विरले निर्जने देशे स्थित्वा चैकाग्रमानसः । कुर्यान्मातङ्गिनीं मुद्रां मातङ्ग इव
3.91
यत्र यत्र स्थितो योगी सुखमत्यन्तमश्नुते । तस्मात्सर्वप्रयत्नेन साधयेन्मुद्रिकां
3.92
वक्त्रं किञ्चित्सुप्रसार्य चाऽनिलं गलया पिबेत् । सा भवेद्भुजङ्गी मुद्रा जरामृत्य
3.93
यावच्च उदरे रोगा अजीर्णादि विशेषतः । तत्सर्वं नाशयेदाशु यत्र मुद्रा भुजङ्गिनी ।
3.94
इदं तु मुद्रापटलं कथितं चण्ड ते शुभम् । वल्लभं सर्वसिद्धानां जरामरणनाशनम्
3.95
शठाय भक्तिहीनाय न देयं यस्य कस्यचित् । गोपनीयं प्रयत्नेन दुर्लभं मरुतामपि
3.96
ऋजवे शान्तचित्ताय गुरुभक्तिपराय च । कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम्
3.97
मुद्राणां पटलं ह्येतत्सर्वव्याधिविनाशनम् । नित्यमभ्यासशीलस्य जठराग्निविवर्धनम्
3.98
न तस्य जायते मृत्युर्नास्य जरादिकं तथा । नाग्निजलभयं तस्य वायोरपि कुतो भयम्
3.99
कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश्च विंशतिः । मुद्राणां साधनाच्चैव विनश्यन्
3.100
बहुना किमिहोक्तेन सारं वच्मि च चण्ड ते । नास्ति मुद्रासमं किञ्चित्सिद्धिदं क्षित
← घटस्थयोगे द्वात्रिंशासनवर्णनम्
प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः →