← Malinivijayottara Tantra
Malinivijayottara Tantra
मन्त्रोद्धाराधिकारः
68 verses · Revealed scripture (Trika agama)
3.1
एवमुक्ता महादेवी जगदानन्दकारिणा । प्रणिपत्य पुनर्वाक्यमिदमाह जगत्पतिम्
3.2
एवमेतन्महादेव नान्यथा समुदाहृतम् । यथाख्यातं तथा ज्ञातमादितः समनुक्रमात्
3.3
शिवादिवस्तुरूपाणां वाचकान्परमेश्वर । सांप्रतं श्रोतुमिच्छामि प्रसादाद्वक्तुमर्हस
3.4
इत्युक्तः स महेशान्या जगदार्तिहरो हरः । वाचकानवदन्मन्त्रान्पारम्पर्यक्रमागतान्
3.5
या सा शक्तिर्जगद्धातुः कथिता समवायिनी । इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद
3.6
सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु । एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम्
3.7
ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते । एवंभूतमिदं वस्तु भवत्विति यदा पुनः
3.8
जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रियोच्यते । एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम
3.9
अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी । तत्र तावत्समापन्ना मातृभावं विभिद्यते
3.10
द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी । बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा
3.11
कादिभिश्च स्मृता योनिर्नवधा वर्गभेदतः । पृथग्वर्णविभेदेन शतार्धकिरणोज्ज्वला
3.12
बीजमत्र शिवः शक्तिर्योनिरित्यभिधीयते । वाचकत्वेन सर्वापि शंभोः शक्तिश्च शस्यते
3.13
वर्गाष्टकमिह ज्ञेयमघोराद्यमनुक्रमात् । तदेव शक्तिभेदेन माहेश्वर्यादि चाष्टकम्
3.14
माहेशी ब्राह्मणी चैव कौमारी वैष्णवी तथा । ऐन्द्री याम्या च चामुण्डा योगीशी चेति
3.15
शतार्धभेदभिन्नानां तत्संख्यानां वरानने । रुद्राणां वाचकत्वेन कल्पिताः परमेष्ठिना
3.16
तद्वदेव च शक्तीनां तत्संख्यानामनुक्रमात् । सर्वं च कथयिष्यामि तासां भेदं यथा शृण
3.17
अमृतोऽमृतपूर्णश्च अमृताभोऽमृतद्रवः । अमृतौघोऽमृतोर्मिश्च अमृतस्यन्दनोऽपरः
3.18
अमृताङ्गोऽमृतवपुरमृतोद्गार एव च । अमृतास्योऽमृततनुस्तथा चामृतसेचनः
3.19
तन्मूर्तिरमृतेशश्च सर्वामृतधरोऽपरः । षोडशैते समाख्याता रुद्रबीजसमुद्भवाः
3.20
जयश्च विजयश्चैव जयन्तश्चापराजितः । सुजयो जयरुद्रश्च जयकीर्तिर्जयावहः
3.21
जयमूर्तिर्जयोत्साहो जयदो जयवर्धनः । बलश्चातिबलश्चैव बलभद्रो बलप्रदः
3.22
बलावहश्च बलवान्बलदाता बलेश्वरः । नन्दनः सर्वतोभद्रो भद्रमूर्तिः शिवप्रदः
3.23
सुमनाः स्पृहणो दुर्गो भद्रकालो मनोनुगः । कौशिकः कालविश्वेशौ सुशिवः कोपवर्धनः
3.24
एते योनिसमुद्भूताश्चतुस्त्रिंशत्प्रकीर्तिताः । स्त्रीपाठवशमापन्ना एत एवात्र शक्त
3.25
बीजयोनिसमुद्भूता रुद्रशक्तिसमाश्रयाः । वाचकानामनन्तत्वात्परिसंख्या न विद्यते
3.26
सर्वशास्त्रार्थगर्भिण्या इत्येवंविधयानया । अघोरं बोधयामास स्वेच्छया परमेश्वरः
3.27
स तया संप्रबुद्धः सन्योनिं विक्षोभ्य शक्तिभिः । तत्समानश्रुतीन्वर्णांस्तत्संख्या
3.28
ते तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः । भवन्ति साधकेन्द्राणां नान्यथा वीरवन्दित
3.29
तैरिदं संततं विश्वं सदेवासुरमानुषम् । तेभ्यः शास्त्राणि वेदाश्च संभवन्ति पुनः पु
3.30
अनन्तस्यापि भेदस्य शिवशक्तेर्महात्मनः । कार्यभेदान्महादेवि त्रैविध्यं समुदाहृतम्
3.31
विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् । रुद्राणून्याः समालिङ्ग्य घोरतर्योऽपराः स
3.32
मिश्रकर्मफलासक्तिं पूर्ववज्जनयन्ति याः । मुक्तिमार्गनिरोधिन्यास्ताः स्युर्घोराः
3.33
पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः । पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः
3.34
एताः सर्वाणुसंघातमपि निष्ठा यथा स्थिताः । तथा ते कथिताः शंभोः शक्तिरेकैव शाङ्करी
3.35
अस्या वाचकभेदेन भेदोऽन्यः संप्रचक्ष्यते । यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्त
3.36
विशेषविधिहीनेषु न्यासकर्मसु मन्त्रवित् । न्यसेच्छाक्तशरीरार्थं भिन्नयोनिं तु माल
3.37
न शिखा ऋ।रॢट्च शिरोमाला थ मस्तकम् । नेत्राणि चध वै नासा ई समुद्रे णुणू श्रुती
3.38
बकवर्ग इआ वक्त्रदन्तजिह्वासु वाचि च । वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ
3.39
ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके । प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक्
3.40
तत्परः कथितः प्राणः षक्षावुदरनाभिगौ । मशंताः कटिगुह्योरु युग्मगा जानुनी तथा
3.41
एऐकारौ तथा जङ्घे तत्परौ चरणौ दफौ । अतो विद्याश्च मन्त्राश्च समुद्धार्या यथा शृणु
3.42
सबिन्दुकां दक्षजङ्घां ततो वाचं प्रकल्पयेत् । तयैव जङ्घया युक्तं चतुर्थं दशनं ततः
3.43
दक्षजानुयुतं दण्डं प्राणं दण्डस्थमीर्युतम् । पृथग्घृद्दण्डकटिगा द्विजदण्डौ च पूर
3.44
उस्थितं बिन्दुयुक्प्राणं पूर्ववद्दशनं ततः । दण्डं केवलमुद्धृत्य वाममुद्रान्वितं
3.45
दक्षजानुयुतं हृच्च प्राणं जीवात्मना युतम् । दशनं पुर्ववन्न्यस्य दण्डं केवलमेव च
3.46
नितम्बं दक्षमुद्रेतं द्वितीयं जिह्वया द्विजम् । सनासं दक्षशिखरं नितम्बं केवलं तत
3.47
पुनस्तथैव शिखरं जठरं केवलं ततः । दक्षजानुयुतं कर्णं कण्ठं केवलमेव च
3.48
नितम्बं केवलं न्यस्य हृदयं जिह्वया युतम् । वक्त्रं केवलमुद्धृत्य प्राणमाद्येन जा
3.49
शूलदण्डचतुष्कं च तत्राद्यं द्वयमुस्थितम् । वामपादं च तस्यान्ते कपालं पतितं न्यसे
3.50
ततः परमघोरान्तं पाद्यकाद्ये च पूर्ववत् । परापरा समाख्याता अपरा च प्रकथ्यते
3.51
अघोरान्तं न्यसेदादौ प्राणं बिन्दुयुतं पुनः । वाममुद्रान्वितं न्यस्य पाद्यं काद्य
3.52
अपरेयं समाख्याता रुद्रशक्तिं परां शृणु । मन्त्राः संमुखतां यान्ति ययोच्चारितमात्
3.53
कम्पते गात्रयष्टिश्च द्रुतं चोत्पतनं भवेत् । मुद्राबन्धं च गेयं च शिवारुदितमेव च
3.54
अतीतानगतार्थस्य कुर्याद्वा कथनादिकम् । वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः
3.55
परेयमनया सिद्धिः सर्वकामफलप्रदा । नाशिष्याय प्रदेयेयं नाभक्ताय कदा चन
3.56
रुद्रश्च रुद्रशक्तिश्च गुरुश्चेति त्रयं समम् । भक्त्या प्रपश्यते यस्तु तस्मै देय
3.57
शिष्येनापि तदा ग्राह्या यदा संतोषितो गुरुः । शरीरद्रव्यविज्ञानशुद्धिकर्मगुणादिभि
3.58
बोधिता तु यदा तेन गुरुणा हृष्टचेतसा । तदा सिद्धिप्रदा ज्ञेया नान्यथा वीरवन्दिते
3.59
परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः । पञ्च षट्पञ्च चत्वारि द्वित्रिद्व्यर्णाः
3.60
ज्ञेयाः सप्तैकादशार्णा एकार्धार्णद्वयान्विता । जीवो दीर्घस्वरैः षड्भिः पृथग्जाति
3.61
विद्यात्रयस्य गात्राणि ह्रस्वैर्वक्त्राणि पञ्चभिः । ओंकारैः पञ्चभिर्मन्त्रो विद्
3.62
ॐ अमृते तेजोमालिनि स्वाहा पदानि भूषितम् । एकादशाक्षरं प्रोक्तमेतद्ब्रह्मशिरः प्र
3.63
वेदवेदिनि हूंफट्च च प्रणवादिसमन्विता । रुद्राण्यष्टाक्षरा ज्ञेया शिखा विद्यागणस्
3.64
वज्रिणे वज्रधराय स्वाहान्तं प्रणवादिकम् । एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृटम्
3.65
श्लीपदं पशुशब्दं च हूंफडन्तं भवादिकम् । एतत्पाशुपतं प्रोक्तमर्धसप्ताक्षरं परम्
3.66
लरटक्षवयैर्दीर्घैः सूमायुक्तैः सबिन्दुकैः । इन्द्रादीन्कल्पयेद्ध्रस्वैस्तदस्त्रा
3.67
तद्वन्नासापयोभ्यां तु कल्प्यौ विष्णुप्रजापती । स्वरावाद्यतृतीयौ तु वाचकौ पद्मचक्
3.68
इति मन्त्रगणः प्रोक्तः सर्वकामफलप्रदः । योगिनां योगसिद्ध्यर्थं किमन्यत्परिपृच्छस
← व्याप्त्यधिकारः
योगलक्षणाधिकारः →