← Malinivijayottara Tantra
Malinivijayottara Tantra
जलादिमहाभूतजयाधिकारः
62 verses · Revealed scripture (Trika agama)
13.1
अथातः सम्प्रवक्ष्यामि धारणां वारुणीमिमाम् । यया संसिद्धयोगेन जलान्ताधिपतिर्भवेत्
13.2
जलान्तःस्थं स्मरेद्देहं सितं शीतं सुवर्तुलम् । सबाह्याभ्यन्तरं योगी नान्यदस्तीति
13.3
एवमभ्यस्यतस्तस्य सप्ताहात्क्लिन्नता भवेत् । पित्तव्याधिपरित्यक्तो मासेन भवति ध्र
13.4
स्निग्धाङ्गः स्निग्धदृष्टिश्च नीलकुञ्चितमूर्धजः । भवत्यब्देन योगीन्द्रस्त्रिभिर्
13.5
इत्येषा वारुणी प्रोक्ता प्रथमा शुद्धधारणा । अधुना संप्रवक्ष्यामि भेदैर्भिन्नामिम
13.6
पूर्ववच्चिन्तयेद्देहं सव्यापारं सितं स्वकम् । जलोपरि स्थितं देवि तद्गतेनान्तरात्
13.7
सप्ताहान्मुच्यते रोगैः सर्वैः पित्तसमुद्भवैः । षण्मासाज्जायते स्थैर्यं यदि तन्मय
13.8
जलावरणविज्ञानमब्दैरस्य त्रिभिर्भवेत् । निर्व्यापारप्रभेदेऽपि सर्वत्र वरुणोपमः
13.9
स याति वारुणं तत्त्वं भूमिकाः क्रमशोऽभ्यसेत् । पूर्ववत्कण्ठमध्यस्थमात्मानं द्वाद
13.10
संस्मरञ्जलतत्त्वेशं प्रपश्यत्यचिराद्ध्रुवम् । तद्दृष्टिः स्थिरतामेति स्वरूपे पञ्
13.11
द्विभेदेऽपि स्थिरीभूते चन्द्रबिम्बे घनावृते । तत्समानत्वमभ्येति ततः सकलरूपिणी
13.12
चिन्त्यते देहमापूर्य सितवर्णेन तेजसा । तदेव स्थिरतामेति तत्र सुस्थिरतां गते
13.13
घनमुक्तेन्दुबिम्बाभं ततः समनुचिन्तयेत् । तत्पतित्वं समभ्येति द्वितीये स्थिरतां व
13.14
अधःप्रकाशकं शुक्लं ततस्तेजो विचिन्तयेत् । विद्येश्वरत्वमाप्नोति जलावरणसंभवम्
13.15
स्वदेहव्यापिनि ध्याते तत्रस्थे शुक्लतेजसि । सर्वाधिपत्यमाप्नोति सुस्थिरे तत्र सु
13.16
ध्येयतत्त्वसमानत्वमवस्थात्रितये स्थिरे । द्वितये च तदीशान संवित्तिरुपजायते
13.17
द्वितयेऽन्यत्र तत्तुल्यः स्थिरो भवति योगवित् । षट्के सर्वेशतामेति द्वितयेऽन्यत्र
13.18
इत्ययं सर्वतत्त्वेषु भेदे पञ्चदशात्मके । ज्ञेयो विधिर्विधानज्ञैः फलपञ्चकसिद्धिदः
13.19
तत्फलान्तरमेतस्मादुक्तं यच्चापि वक्ष्यते । अनुषङ्गफलं ज्ञेयं तत्सर्वमविचारतः
13.20
इतीयं वारुणी प्रोक्ता प्रभेदैर्दशपञ्चभिः । योगिनां योगसिद्ध्यर्थमाग्नेयीमधुना शृ
13.21
त्रिकोणं चिन्तयेद्देहं रक्तज्वालावलीधरम् । स्वशरीरोत्थितो वह्निर्ज्वलन्वै सर्वदा
13.22
सप्तभिर्दिवसैर्देवि तैक्ष्ण्यमस्योपजायते । वातश्लेष्मभवैः सर्वैर्मासान्मुच्यति स
13.23
निद्राहीनश्च बह्वाशी स्वल्पविण्मूत्रकृद्भवेत् । इच्छया निर्दहेद्यद्यत्स्पृष्टं व
13.24
त्र्यब्दादग्निसमो भूत्वा क्रीडत्यग्निर्यथेच्छया । सर्वं निर्दहति क्रुद्धः सशैलवन
13.25
त्रिकोणमण्डलारूढमात्मानमनुचिन्तयेत् । सव्यापारादिभेदेन सर्वत्रापि विचक्षणः
13.26
सप्ताहाद्व्याधिभिर्हीनः षण्मासादग्निवद्भवेत् । त्रिभिरब्दैः स संपूर्णं तेजस्तत्त
13.27
यच्छक्तिभेदे यद्दृष्टं तत्तद्भेदे स्थिरीभवेत् । पूर्ववत्तालुमध्यस्थमात्मानं ज्वल
13.28
ध्यायन्प्रपश्यते तेजस्तत्त्वेशानखिलान्क्रमात् । धूमाक्रान्ताग्निसंकाशं रविबिम्बस
13.29
ध्यायंस्तन्मध्यतस्तेजस्तत्त्वेशसमतां व्रजेत् । प्रभाहततमोजालं विधूमाग्निसमप्रभम्
13.30
तत्रैव सकलं ध्यायेत्तत्पतित्वमवाप्नुयात् । दिवसाग्निप्रभाकारं तत्र तेजो विचिन्तय
13.31
तन्मन्त्रेश्वरतामेति तत्र सुस्थिरताम्गतः । मणिप्रदीपसंकाशं तेजस्तत्र प्रकाशयेत्
13.32
मन्त्रेशेशत्वमभ्येति योगी तन्मयतां गतः । सबाह्याभ्यन्तरं तेजो ध्यायन्सर्वत्र तद्
13.33
तस्मान्न च्यवते स्थानादासंहारमखण्डितः । संहारे तु परं शान्तं पदमभ्येति शाङ्करम्
13.34
इत्येषा पञ्चदशधा कथिता वह्निधारणा । स्वदेहं चिन्तयेत्कृष्णं वृत्तं षड्बिन्दुलाञ्
13.35
चलं सचूचूशब्दं च वायवीं धारणां श्रितः । चलत्वं कफजव्याधिविच्छेदाद्वायुवद्भवेत्
13.36
षण्मासमभ्यसेद्योगी तद्गतेनान्तरात्मना । योजनानां शतं गत्वा मुहूर्तादेत्यखेदतः
13.37
वत्सरैस्तु त्रिभिः साक्षाद्वायुरूपधरो भवेत् । चूर्णयत्यद्रिसंघातं वृक्षानुन्मूलय
13.38
क्रुद्धश्चालयते शक्रं सभृत्यबलवाहनम् । नीलाञ्जननिभं देहमात्मीयमनुचिन्तयेत्
13.39
पूर्वोक्तं सर्वमाप्नोति षण्मासान्नात्र संशयः । त्र्यब्दात्प्रपश्यते वायु तत्त्वं
13.40
भ्रुवोर्मध्ये स्मरेद्रूपमात्मनोऽञ्जनसंनिभम् । पश्यते वायुतत्त्वेशानाशुगानखिलानपि
13.41
घनावृतेन्द्रनीलाभरविबिम्बसमाकृतिम् । ध्यायंस्तत्समतामेति तत्संलीनो यदा भवेत्
13.42
भिन्नेन्द्रनीलसंकाशं सकलं तत्र चिन्तयेत् । तन्मन्त्रेशत्वमाप्नोति ततस्तस्येशतामप
13.43
सर्वव्यापिनि तद्वर्णे ध्याते तेजस्यवाप्नुयात् । तदाप्रधृष्यतामेति तत्राधोर्ध्ववि
13.44
इतीयं कथिता दिव्या धारणा वायुसम्भवा । स्वदेहं वायुवद्ध्यात्वा तदभावमनुस्मरन्
13.45
दिवसैः सप्तभिर्योगी शून्यतां प्रतिपद्यते । मासमात्रेण भोगीन्द्रैरपि दष्टो न मुह्
13.46
सर्वव्याधिपरित्यक्तो वलीपलितवर्जितः । षण्मासाद्गगनाकारः सूक्ष्मरन्ध्रैरपि व्रजेत
13.47
वत्सरत्रितयात्साक्षाद्व्योमवच्च भविष्यति । इच्छयैव महाकायः सूक्ष्मदेहस्तथेच्छया
13.48
अच्छेद्यश्चाप्यभेद्यश्च च्छिद्रां पश्यति मेदिनीम् । शतपुष्परसोच्छिष्टमूषागर्भखवन
13.49
देहं चिन्तयतस्त्र्यब्दाद्व्योमज्ञानं प्रजायते । पूर्वोक्तं च फलं सर्वं सप्ताहादि
13.50
ललाटे चिन्तयेत्तद्वद्द्वादशाङ्गुलमायतम् । तत्तत्त्वेशान्क्रमात्सर्वान्प्रपश्यत्य
13.51
राहुग्रस्तेन्दुबिम्बाभं ध्यायंस्तत्समतां व्रजेत् । सकलं चन्द्रबिम्बाभम्तत्रस्थमन
13.52
तन्मन्त्रेशत्वमाप्नोति ज्योत्स्नया चेन्द्रतामपि । तयैवाधोविसर्पिण्या सबाह्याभ्यन
13.53
मन्त्रेश्वरेशतामाप्य विज्ञानमतुलं लभेत् । तया चोर्ध्वविसर्पिण्या ज्योत्स्नयामृतर
13.54
स्वतन्त्रत्वमनुप्राप्य न क्व चित्प्रतिहन्यते । इत्येवं पञ्चतत्त्वानां धारणाः परि
13.55
शुद्धाद्यस्था तु संवित्तिर्भूतावेशोऽत्र पञ्चधा । तास्वेव संदधच्चित्तं विषादिक्षय
13.56
अन्यस्यामपि संवित्तौ यस्यामेव निजेच्छया । चेतः सम्यक्स्थिरीकुर्यात्तया तत्फलमश्न
13.57
एकापि भाव्यमानेयमवान्तरविभेदतः । अन्तरायत्वमभ्येति तत्र कुर्यान्न संस्थितिम्
13.58
संस्थितिं तत्र कुर्वन्तो न प्राप्स्यन्त्युत्तमं फलम् । धारणापञ्चके सिद्धे पिशाचा
13.59
ऐन्द्रान्ताः पञ्च सिद्ध्यन्ति योगिनां भेदतोऽपि वा । इष्टाः पञ्चदशावस्थाः क्रमेणै
13.60
त्र्यब्दादाद्यां प्रसाध्यान्यां द्वाभ्यामेकेन चापराम् । षण्मासात्पञ्चभिश्चान्यां
13.61
द्वाभ्यामेकेन पक्षेण दशभिः पञ्चभिर्दिनैः । त्रिभिर्द्वाभ्यामथैकेन व्यस्तेच्छोः प
13.62
शाश्वतं पदमाप्नोति भुक्त्वा सिद्धिं यथेप्सिताम्
← धारणाधिकारः
तन्मात्रधारणाधिकारः →