← Malinivijayottara Tantra
Malinivijayottara Tantra

तन्मात्रधारणाधिकारः

44 verses · Revealed scripture (Trika agama)

14.1अथ गन्धादिपूर्वाणां तन्मात्राणामनुक्रमात् । धारणाः संप्रवक्ष्यामि तत्फलानां प्रस 14.2पीतकं गन्धतन्मात्रं तुर्याश्रं पर्वसंमितम् । नासारन्ध्राग्रगं ध्यायेद्वज्रलाञ्छन 14.3दशमाद्दिवसादूर्ध्वं योगिनोऽनन्यचेतसः । क्वापि गन्धः समायाति द्विधाभूतोऽप्यनेकधा 14.4ततोऽस्य ऋतुमात्रेण शुद्धो गन्धः स्थिरीभवेत् । षड्भिर्मासैः स्वयं गन्ध मय एव भविष 14.5यो यत्र रोचते गन्धस्तं तत्र कुरुते भृशम् । त्र्यब्दात्सिद्धिमवाप्नोति प्रेप्सिता 14.6तदूर्ध्वमात्मनो रूपं तत्र संचिन्तयेद्यदि । गन्धावरणविज्ञानं त्रिभिरब्दैरवाप्नुया 14.7ईषद्दीप्तियुतं तत्र तन्मण्डलविवर्जितम् । ध्यायन्प्रपश्यते सर्वान्गन्धावरणवासिनः 14.8धरातत्त्वोक्तबिम्बाभं तत्रैवमनुचिन्तयन् । तत्समानत्वमभ्येति पूर्ववद्द्वितये स्थि 14.9स्वरूपं तत्र संचिन्त्य भासयन्तमधःस्थितम् । तदीशत्वमवाप्नोति पूर्वोक्तेनैव वर्त्म 14.10धरातत्त्वोक्तवत्सर्वमत ऊर्ध्वमनुस्मरन् । तद्रूपं फलमाप्नोति गन्धावरणसंस्थितम् 14.11रसरूपामतो वक्ष्ये धारणां योगिसेविताम् । यया सर्वरसावाप्तिर्योगिनः संप्रजायते 14.12जलबुद्बुदसंकाशं राजनाड्यग्रसंस्थितं । चिन्तयेद्रसतन्मात्रं जिह्वाग्राधारमात्मनः 14.13सुशीतं षड्रसं स्निग्धं तद्गतेनान्तरात्मना । ततोऽस्य मासमात्रेण रसास्वादः प्रवर्त 14.14लवणादीन्परित्यज्य यदा मधुरतां गतः । तदा तन्निगिरन्योगी षण्मासान्मृत्युजिद्भवेत् 14.15जराव्याधिविनिर्मुक्तः कृष्णकेशोऽच्युतद्युतिः । जीवेदाचन्द्रतारार्कमभ्यस्यंश्च क् 14.16पूर्वोक्तबुद्बुदाकारं स्वरूपमनुचिन्तयन् । नीरावरणविज्ञानमाप्नोतीति किमद्भुतम् 14.17तमेव द्युतिसंयुक्तं ध्यायन्नाधारवर्जितम् । पश्यते वत्सरैः सर्वं रसावरणमाश्रितम् 14.18जलतत्त्वोक्तबिम्बादि तदूर्ध्वमनुचिन्तयन् । पूर्वोक्तं सर्वमाप्नोति रसावरणजं स्फु 14.19अतो रूपवतीं वक्ष्ये दिव्यदृष्टिप्रदां शुभाम् । धारणां सर्वसिद्ध्यर्थं रूपतन्मात् 14.20एकान्तस्थो यदा योगी बहिर्मीलितलोचनः । शरत्संध्याभ्रसंकाशं यत्तत्किं चित्प्रपश्यत 14.21तत्र चेतः समाधाय यावदास्ते दशाह्निकम् । तावत्स पश्यते तत्र बिन्दून्सूक्ष्मतमानपि 14.22के चित्तत्र सिता रक्ताः पीता नीलास्तथापरे । तान्दृष्ट्वा तेषु संदध्यान्मनोऽत्यन् 14.23षण्मासात्पश्यते तेषु रूपाणि सुबहूनि च । त्र्यब्दात्तान्येव तेजोभिः प्रदीप्तानि स 14.24तान्यभ्यस्यंस्ततो द्व्यब्दाद्बिम्बाकाराणि पश्यति । ततोऽब्दात्पश्यते तेजः षण्मासा 14.25त्रिमासाद्व्यापकं तेजो मासात्सर्वं विसर्पितम् । कालक्रमाच्च पूर्वोक्तं रूपावरणमा 14.26सर्वं फलमवाप्नोति दिव्यदृष्टिश्च जायते । इतीयं कल्पनाशून्या धारणाकृतकोदिता 14.27दशपञ्चविधो भेदः स्वयमेवात्र जायते । अतोऽस्यां निश्चयं कुर्यात्किमन्यैः शास्त्रडम 14.28अतः स्पर्शवतीमन्यां कथयामि तवाधुना । धारणां तु यया योगी वज्रदेहः प्रजायते 14.29षट्कोणमण्डलान्तःस्थमात्मानं परिभावयेत् । रूक्षमञ्जनसंकाशं प्रत्यङ्गस्फुरिताकुलम् 14.30ततोऽस्य दशभिर्देवि दिवसैस्त्वचि सर्वतः । भवेत्पिपीलिकास्पर्शस्ततस्तमनुचिन्तयन् 14.31वज्रदेहत्वमासाद्य पूर्वोक्तं पूर्ववल्लभेत् । पूर्वोक्तमण्डलाकारं पूर्वरूपं विचिन 14.32स्पर्शतत्त्वावृतिज्ञानं लभन्केन निवार्यते । हीनमण्डलमात्मानं ध्यायेत्तत्पतिसिद्ध 14.33यया संसिद्धया सर्व स्पर्शवेदी भविष्यति । कर्णौ पिधाय यत्नेन निमीलितविलोचनः 14.34संशृणोति महाघोषं चेतस्तत्रानुसंदधेत् । दीप्यते जाठरो वह्निस्ततोऽस्य दशभिर्दिनैः 14.35दूराच्छ्रवणविज्ञानं षण्मासादुपजायते । यस्तस्यान्ते ध्वनिर्मन्दः किं चित्किं चिद् 14.36सकलात्मा स विज्ञेयस्तदभ्यासादनन्यधीः । शब्दावरणविज्ञानमाप्नोति स्थिरतां गतम् 14.37यः पुनः श्रूयते शब्दस्तदन्ते शङ्खनादवत् । प्रलयाकलरूपं तदभ्यस्यं तत्फलेप्सुभिः 14.38स एवातितरामन्यशब्दप्रच्छादको यदा । विज्ञानाकल इत्युक्तस्तदासावपराजिते 14.39मनोह्लादकरो योऽन्यस्तदन्ते संविभाव्यते । स मन्त्र इति विज्ञेयो योगिभिर्योगकाङ्क् 14.40ततस्तु श्रूयते योऽन्यः शान्तघण्टानिनादवत् । स मन्त्रेश इति प्रोक्तः सर्वसिद्धिफल 14.41घण्टानादविरामान्ते यः शब्दः संप्रजायते । मन्त्रेशेशपदं तद्धि सिद्धीनां कारणं महत 14.42अनिलेनाहता वीणा यादृङ्नादं विमुञ्चति । तादृशो यो ध्वनिस्तत्र तं विद्याच्छाम्भवं 14.43पृथग्वा क्रमशो वापि सर्वानेतान्समभ्यसेत् । प्राप्नोति सर्ववित्सिद्धीः शब्दावरणमा 14.44इत्येताः कथिताः पञ्च तन्मात्राणां तु धारणाः