← Malinivijayottara Tantra
Malinivijayottara Tantra
अक्षधारणाधिकारः
47 verses · Revealed scripture (Trika agama)
15.1
अथ वागिन्द्रियादीनां मनोन्तानामनुक्रमात् । धारणाः संप्रवक्ष्यामि दशैकाञ्च समासतः
15.2
वदनान्तर्नमःशब्दमात्मनश्चिन्तयेद्बुधः । गृहीतवाक्त्वमभ्येति मौनेन मधुसूदनि
15.3
सर्वत्रास्खलिता वाणी षड्भिर्मासैः प्रवर्तते । सर्वशास्त्रार्थवेत्तृत्वं वत्सरादु
15.4
वागेवास्य प्रवर्तेत काव्यालङ्कारभूषिता । त्रिभिरब्दैः स्वयं कर्ता शास्त्राणां सं
15.5
तत्रैव चिन्तयेद्देहं स्वकीयमनुरूपतः । भूयस्तमेव धवलमीषत्तेजोवभासितम्
15.6
रसान्तःसोमबिम्बादितेजोन्तं तमनुस्मरेत् । सर्वं फलमवाप्नोति वागावरणजं क्रमात्
15.7
पाणौ चित्तं समादाय षण्मासाद्दूरसंस्थितम् । वस्तु गृह्णात्यसंदेहात्त्र्यब्दात्पार
15.8
तत्रात्मदेहपूर्वं तु पद्माभमनुचिन्तयन् । सव्यापारादिभेदेन चतुर्दशकमादरात्
15.9
पुरोक्तकालनियमात्पूर्वोक्तेनैव वर्त्मना । सर्वं फलमवाप्नोति हस्तावृतिसमाश्रितम्
15.10
पादावेवंविधौ ध्यायन्वत्सरत्रयमादरात् । मुहूर्तेन समुद्रान्तामश्रान्तो भ्रमति क्ष
15.11
चतुर्दश समभ्यर्च्य स्वदेहादिकमभ्यसन् । प्राप्नोति पूर्ववत्सर्वं फलं पादावृतिस्थि
15.12
पायावपि मनस्तत्त्वं स्थिरीकुर्वन्नवाप्स्यति । मासेन तद्भवव्याधि विमुक्तिमविलम्बत
15.13
पुण्यश्लोकत्वमाप्नोति त्रिभिरब्दैरनादरात् । चतुर्दशविधं चात्र पूर्ववत्फलमाप्स्यत
15.14
स्वरूपतः स्मरेल्लिङ्गं मासमात्राज्जितेन्द्रियः । षड्भिर्मासैरनायासादिच्छाकामित्व
15.15
चतुर्दशविधे भेदे तत्राभ्यस्ते महामतिः । लिङ्गावरणजं सर्वं पूर्ववल्लभते फलम्
15.16
स्वजिह्वामिन्दुवर्णाभां चिन्तयेद्दशभिर्दिनैः । प्राप्नोत्यनुभवं योगी जिह्वाभावमि
15.17
आस्वादयति दूरस्थं षण्मासादेकमानसः । वत्सरैस्तु त्रिभिः साक्षाल्लेढ्यसौ परमामृतम्
15.18
येनासौ भवते योगी जरामरणवर्जितः । अपेयादिप्रसक्तोऽपि न पापैः परिभूयते
15.19
पूर्ववत्सर्वमन्यच्च स्वदेहाद्यनुचिन्तयन् । फलमाप्नोत्यसंदेहाद्रसनावृतिसंभवम्
15.20
कनकाभं स्वकं घ्राणमनुचिन्तयतः शनैह् । दिवसैर्दशभिर्घ्राणशुन्यतानुभवो भवेत्
15.21
षण्मासाद्गन्धमाघ्राति दूरस्थस्यापि वस्तुनः । घातयेद्गन्धमाघ्राय यस्य रुष्टो भविष
15.22
वत्सरैस्तु त्रिभिर्दिव्यं गन्धमासाद्य योगवित् । जरामरणनैर्गुण्ययुक्तो दिव्यत्वमर
15.23
सर्वमन्यद्यथोद्दिष्टं तथैव च विचिन्तयेत् । क्रमिकं फलमाप्नोति घ्राणावरणमास्थितम्
15.24
उदयादित्यसंकाशे चिन्तयंश्चक्षुषी निजे । दशाहाच्चक्षुषो रक्तस्रावानुभवमाप्स्यति
15.25
वेदना महती चास्य ललाटे संप्रजायते । न भेतव्यं महादेवि न चाभ्यासं परित्यजेत्
15.26
संत्यजन्नन्धतामेति तेन यत्नात्समभ्यसेत् । षड्भिर्मासैर्महायोगी दिव्यदृष्टिः प्रज
15.27
छिद्रां प्रपश्यते भूमिं कटाहान्तामतन्द्रितः । आध्रुवान्तमथोर्ध्वं च करामलकवद्बुध
15.28
वत्सरैस्तु त्रिभिर्योगी ब्रह्माण्डान्तं प्रपश्यति । तदन्तर्योगिनीज्ञानं शरीरस्थं
15.29
स्वदेहादिकमन्यच्च पूर्वोक्तं पूर्ववत्स्मरन् । नयनावृतिजं सर्वमाप्नोतीति किमद्भुत
15.30
सर्वत्राञ्जनपत्राभां निस्तरङ्गां त्वचं स्मरन् । शस्त्रैरपि न मासेन छेत्तुं शक्यो
15.31
षण्मासादतितीव्रेण नाग्निनाप्येष दह्यते । वत्सरत्रितयाद्योगी वज्रोपलविषाहिभिः
15.32
पीड्यते न कदा चित्स्यादजरामरतां गतः । स्पर्शावृतिजविज्ञान गीतवच्च चतुर्दश
15.33
भेदाः सह फलैर्ज्ञेयाः पूर्वकालानुसारतः । किं त्वत्र चिन्तयेद्देहं स्वदेहादिभिराव
15.34
संदधानः स्वकं चेतः श्रोत्राकाशे विचक्षणः । दूराच्छ्रवणविज्ञानं षण्मासादुपजायते
15.35
त्रिभिः संवत्सरैर्देवि ब्रह्माण्डान्तरुदीरितम् । शृणोति स स्फुटं सर्वं जरामरणवर्
15.36
तत्राकाशोक्तवत्सर्वं स्वदेहाद्यनुचिन्तयेत् । श्रोत्रावरणजं सर्वं फलमाप्नोति पूर्
15.37
मनोवतीमतो वक्ष्ये धारणां सर्वसिद्धिदाम् । यया संसिद्धया देवि सर्वसिद्धिफलं लभेत्
15.38
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । तस्मात्तदभ्यसेन्मन्त्री यदीच्छेन्मोक्षमक्ष
15.39
तदर्धचन्द्रसंकाशमधोवक्त्रं हृदि स्थितम् । चिन्तयन्मासमात्रेण प्रतिभां प्रतिपत्स्
15.40
अकस्मात्पश्यते किं चिदकस्माच्छृणुते तथा । सर्वेन्द्रियात्मकं ज्ञानं अकस्माच्च क्
15.41
स्वस्वकेन्द्रियविज्ञानं संपश्येद्वत्सरत्रयात् । भवते योगयुक्तस्य योगिनः सुपरिस्फ
15.42
स्वदेहादिकमप्यत्र पूर्वोक्तवदनुस्मरन् । चित्तावरणविज्ञानं प्राप्य सोमगुणं लभेत्
15.43
इत्येकादश गीतानि समभ्यस्यानि ते तथा । इन्द्रियाणि यतः सर्वं फलमेषु प्रतिष्ठितम्
15.44
बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः । विगृहीतानि बन्धाय विमुक्तानि विमुक्त
15.45
एतानि व्यापके भावे यदा स्युर्मनसा सह । विमुक्तानीति विद्वद्भिर्ज्ञातव्यानि तदा प
15.46
यदा तु विषये क्वापि प्रदेशान्तरवर्तिनि । संस्थितानि तदा तानि बद्धानीति प्रचक्षते
15.47
इत्ययं द्विविधो भावः शुद्धाशुद्धप्रभेदतः । इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरी
← तन्मात्रधारणाधिकारः
धारणाधिकारः →