← Malinivijayottara Tantra
Malinivijayottara Tantra

धारणाधिकारः

68 verses · Revealed scripture (Trika agama)

16.1अथ गर्वमयीं दिव्यां धारणां धारणोत्तमाम् । महागर्वकरीं वक्ष्ये योगिनां योगवन्दिते 16.2षोडशारं स्मरेच्चक्रमात्मदेहमनन्यधीः । एषोऽहमिति संचिन्त्य स्वकार्यपरिवारितम् 16.3अप्रधृष्यो भवेद्योगी वत्सरत्रितयेन तु । ममत्वमच्युतं तस्य भवेत्सर्वत्र कुत्र चित 16.4तादृग्रूपस्य चक्रस्य नाभिं मूर्तिं स्वकां स्मरन् । चिन्तयेत्सर्वमेवाहं मयि सर्वम 16.5ततोऽहङ्कारविज्ञानं प्राप्नोतीति किमद्भुतम् । हृच्चक्रे समनुध्यायन्मत्स्वरूपमतन्द 16.6अविलम्बमवाप्नोति गर्वावरणजं फलम् । बिम्बादिकं क्रमात्सर्वं चिन्तयन्नीललोहितम् 16.7तद्भवं सर्वमाप्नोति दशावस्थाप्रचोदितम् । इति गर्वमयी प्रोक्ता प्रजापतिगुणप्रदा 16.8उद्यदादित्यबिम्बाभं हृदि पद्ममनुस्मरन् । धर्मादिभावसंयुक्तमष्टपत्रं सकर्णिकम् 16.9मासेन स्थिरबुद्धिः स्यात्षड्भिः श्रुतिधरो भवेत् । त्रिभिरब्दैः स्वयं कर्ता शास्त 16.10स्वां तत्र चिन्तयेन्मूर्तिं बुद्धितत्त्वं प्रपश्यति । तदीशज्ञानमाप्नोति ब्रह्माण 16.11वेदानुद्गिरते सुप्तः समाधिस्थोऽथवा मुनिः । सुस्थिरास्ते सदाभ्यासादनधीता अपि स्फु 16.12बिम्बादिकं क्रमात्सर्वं पूर्वोक्तमनुचिन्तयन् । प्राप्नोति ब्राह्ममैश्वर्यं बुद्ध 16.13हृदि बिम्बं रवेर्ध्यायेत्तदन्तः सोममण्डलम् । एवमभ्यसतस्तस्य षण्मासादुपजायते 16.14दिव्यचक्षुरनायासात्सिद्धिः स्याद्वत्सरत्रयात् । स्वदेहं चिन्तयंस्तत्र गुणज्ञानमव 16.15लिङ्गाकारं स्मरन्दीप्तं तदीशत्वमवाप्नुयात् । बिम्बादि पूर्ववद्ध्यायन्दशकं दशकात् 16.16फलमाप्नोत्यसंदेहाद्गुणावरणसंस्थितम् । चतुर्विंशत्यमी प्रोक्ताः प्रत्येकं दशपञ्चध 16.17धारणाः क्ष्मादितत्त्वानां समासाद्योगिनां हिताः । त्रयोदशात्मके भेदे षडन्याः संस् 16.18योगिनामनुवर्ण्यन्ते तथा योगप्रसिद्धये । देहं मुक्त्वा स्वरूपेण नान्यत्किं चिदिति 16.19सितपद्मासनासीनं मण्डलत्रितयोपरि । एवमत्र स्थिरीभूते मासमात्रेण योगवित् 16.20सर्वव्याधिविनिर्मुक्तो भवतीति किमद्भुतम् । षण्मासादस्य विज्ञानं जायते पृथिवीतले 16.21अब्दाज्जरादिनिर्मुक्तस्त्रिभिः पुंस्तत्त्वदृग्भवेत् । हृदधः पङ्कजेऽत्रैव द्वादशा 16.22हृदन्तां भावयेत्स्वाक्यां षण्मासान्मृत्युजिद्भवेत् । त्रिभिरब्दैः समाप्नोति पुंस 16.23बिम्बादौ पूर्ववत्सर्वं तत्र संचिन्तिते सति । फलमाप्नोत्यसंदेहात्पुरुषावरणस्थितम् 16.24एतद्वेदान्तविज्ञानं समासादुपवर्णितम् । कपिलस्य पुरा प्रोक्तमेतद्विस्तरशो मया 16.25शरत्संध्याभ्रसंघाभं स्वदेहमनुचिन्तयन् । वीतरागत्वमभ्येति षड्भिर्मासैर्न संशयः 16.26जरामरणनिर्मुक्तो वर्षेणैवोपजायते । त्र्यब्दाज्ज्ञानमवाप्नोति रागावरणजं महत् 16.27रक्तं संचिन्तयेद्देहं संपूर्णाभ्रोपरिस्थितम् । मासषट्कमनुद्विग्नो वीतरागत्वसिद्ध 16.28स्मरन्संवत्सरे सम्यङ्मृत्युना न प्रपीड्यते । त्रिभिरब्दैर्जितद्वन्द्वो रागे च सम 16.29रक्तपद्मस्थितं रक्तं पञ्चपर्वं हृदावधि । ध्यायन्फलमवाप्नोति पूर्वोक्तमखिलं क्रमा 16.30बिम्बादि चात्र पूर्वोक्तमनुचिन्तयतो मुहुः । फलं भवति निःशेषं रञ्जकावृतिसंभवम् 16.31हृदि पद्मं सितं ध्यायेद्द्व्यष्टपत्रं सकेसरम् । सर्वामृतमयं दिव्यं चन्द्रकल्पितक 16.32निश्चलं तत्र संयम्य चेतो निद्रान्तमात्मनः । ततो यत्पश्यते स्वप्ने तथ्यं तत्तस्य 16.33एवमभ्यसतस्तस्य बुद्धिपद्मोदितं फलम् । सर्वं प्रजायते तस्य तत्कालक्रमयोगतः 16.34चतुरङ्गुलदेहादि सर्वं तत्र विचिन्तयन् । पूर्ववत्सर्वमाप्नोति विद्यातत्त्वसमुद्भव 16.35हृदयादेकमेकं तु व्यतिक्रम्यार्धमङ्गुलम् । पृथक्चक्रत्रयं ध्यायेद्रक्तनीलासितं क् 16.36तत्रत्यद्व्येकपर्वं तु पुरुषं तत्समद्युतिम् । बिम्बादिकं च यत्प्रोक्तं तत्त्वत्र 16.37त्रयोदशात्मकं भेदमेतदन्तं विदुर्बुधाः । एकादशप्रभेदेन तत्त्वद्वयमथोच्यते 16.38कण्ठकूपावधौ चक्रे पञ्चारे नाभिसंस्थितम् । ध्यायेत्स्वरूपमात्मीयं दीप्तनेत्रोपलब् 16.39क्षित्यादिकालतत्त्वान्ते यद्वस्तु स्थितमध्वनि । सर्वं प्रसाध्य योगीन्द्रो न काले 16.40बिम्बादिकेऽपि तत्रस्थे योगिनामनुचिन्तिते । भवतीति किलाश्चर्यमनायासेन तत्फलम् 16.41कण्ठाकाशे स्थिरं चेतः कुर्वन्योगी दिने दिने । मायोत्थं फलमाप्नोति बिम्बादावपि तत 16.42कण्ठकूपविधानाभं राहुग्रस्तेन्दुबिम्बवत् । चिन्तयन्न पुनर्याति मायादेर्वशवर्तिताम 16.43तदेव तत्र स्वर्भानुमुक्तवत्परिचिन्तयन् । तेजोदेहादिकं चापि प्राप्नोति परमेशताम् 16.44मध्यन्दिनकराकारं लम्बकस्थं विचिन्तयेत् । समस्तमन्त्रचक्रस्य रूपं यत्सामुदायिकम् 16.45ततः कालक्रमाद्योगी मन्त्रत्वमधिगच्छति । अनुषङ्गफलं चात्र पूर्वोक्तं सर्वमिष्यते 16.46मूर्तिं तत्रैव संचिन्त्य मन्त्रेशत्वमवाप्नुयात् । तदधोदीपकं तेजो ध्यात्वा तत्पति 16.47सबाह्याभ्यन्तरं तस्मादधोर्ध्वं व्यापि च स्मरन् । तेजो मन्त्रेश्वरेशानपदान्न च्यव 16.48बद्ध्वा पद्मासनं योगी पराबीजमनुस्मरन् । भ्रुवोर्मध्ये न्यसेच्चित्तं तद्बहिः किं 16.49निमीलिताक्षो हृष्टात्मा शब्दालोकविवर्जिते । पश्यते पुरुषं तत्र द्वादशाङ्गुलमायतम 16.50तत्र चेतः स्थिरं कुर्यात्ततो मासत्रयोपरि । सर्वावयवसंपूर्णं तेजोरूपमचञ्चलम् 16.51प्रसन्नमिन्दुसंकाशं पश्यति दिव्यचक्षुषा । तं दृष्ट्वा पुरुषम्दिव्यं कालज्ञानं प् 16.52अशिरस्के भवेन्मृत्युः षण्मासाभ्यन्तरेण तु । वञ्चनं तत्र कुर्वीत यत्नात्कालस्य यो 16.53ब्रह्मरन्ध्रोपरि ध्यायेच्चन्द्रबिम्बमकल्मषम् । स्रवन्तममृतं दिव्यं स्वदेहापूरकं 16.54तेनापूरितमात्मानं चेतोनालानुसर्पिणा । सबाह्याभ्यन्तरं ध्यायन्दशाहान्मृत्युजिद्भव 16.55महाव्याधिविनाशेऽपि योगमेनं समभ्यसेत् । प्रत्यङ्गव्याधिनाशाय प्रत्यङ्गगमनुस्मरन् 16.56धूम्रवर्णं यदा पश्येन्महाव्याधिस्तदा भवेत् । कृष्णे कुष्ठमवाप्नोति नीले शीतलिकाभ 16.57हीनचक्षुषि तद्रोगं नासाहीने तदात्मकम् । यद्यदङ्गं न पश्येत तत्र तद्व्याधिमादिशेत 16.58आत्मनो वा परेषां वा योगी योगपथे स्थितः । वर्षैस्तु पञ्चभिः सर्वम्विद्यातत्त्वान् 16.59वेत्ति भुङ्क्ते च सततं न च तस्मात्प्रहीयते । तत्रस्थे तेजसि ध्याते सर्वदेहविसर्प 16.60पूर्वोक्तं सर्वमाप्नोति तत्कालक्रमयोगतः । अथोर्ध्वव्यापिनि ध्याने तत्र तस्मादखण् 16.61सर्वमन्त्रेश्वरेशत्वान्न भूयोऽपि निवर्तते । एवं ललाटदेशेऽपि महादीप्तमनुस्मरन् 16.62प्रपश्यत्यचिरादेव वर्णाष्टकयुतं क्रमात् । इन्द्रनीलप्रतीकाशं शिखिकण्ठसमद्युति 16.63राजावर्तनिभं चान्यत्तथा वैडूर्यसंनिभम् । पुष्परागनिभं चान्यत्प्रवालकसमद्युति 16.64पद्मरागप्रतीकाशमन्यच्चन्द्रसमद्युति । तां दृष्ट्वा परमां ज्योत्स्नां दिव्यज्ञानं 16.65विहारपादचारादि ततः सर्वं प्रवर्तते । अधोर्ध्वं व्यापिनि ध्याते न तस्माच्च्यवते प 16.66इत्येतत्सर्वमाख्यातं लक्ष्यभेदव्यवस्थितम् । अधुना चित्तभेदोऽपि समासादुपदिश्यते 16.67पिशाचानन्तपर्यन्तगुणाष्टकसमीहया । तत्तद्रूपगुणं कुर्यात्सम्यगीशे स्थिरं मनः 16.68इतीश्वरपदान्तस्य मार्गस्यास्य पृथक्पृथक् । यथोपासा तथाख्याता योगिनां योगसिद्धये