← Malinivijayottara Tantra
Malinivijayottara Tantra

षडङ्गयोगाधिकारः

41 verses · Revealed scripture (Trika agama)

17.1अथैतत्सर्वमुद्दिष्टं यदि न स्फुटतां व्रजेत् । स्फुटीकृतेऽस्थिरे तत्र न मनस्तिष्ठ 17.2गतिभङ्गं ततस्तस्य प्राणायामेन कारयेत् । स च पञ्चविधः प्रोक्तः पूरकादिप्रभेदतः 17.3पूरकः कुम्भकश्चैव रेचको ह्यपकर्षकः । उत्कर्षः पञ्चमो ज्ञेयस्तदभ्यासाय योगिभिः 17.4पूरकः पूरणाद्वायोर्द्वेधा षोढा च गीयते । स्वभावपूरणादेको विरेच्यान्यः प्रपूरितः 17.5नासामुखोर्ध्वतालूनां रन्ध्रभेदाद्विभिद्यते । भिन्नः षोढात्वमभ्येति पुनर्भेदैरनन् 17.6कुम्भः पञ्चविधो ज्ञेयस्तत्रैकः पूरितादनु । विधृतो रेचकात्पश्चाद्द्वितीयः परिकीर् 17.7द्वयोरन्ते द्वयं चान्यत्स्वभावस्थश्च पञ्चमः । स्थानान्तरप्रभेदेन गच्छत्येषोऽप्यन 17.8रेचकः पूर्ववज्ज्ञेयो द्विधाभूतः षडात्मकः । स्थानसंस्तम्भितो वायुस्तस्मादुत्कृष्य 17.9योऽन्यप्रदेशसंप्राप्त्यै स उत्कर्षक इष्यते । तस्मादपि पुनः स्थानं यतो नीतस्तदाहृ 17.10अपकर्षक इत्युक्तो द्वावप्येतावनेकधा । एषामभ्यसनं कुर्यात्पद्मकाद्यासनस्थितः 17.11अधमः सकृदुद्घातो मध्यमो द्विगुणो मतः । ज्येष्ठः स्याद्यस्त्रिरुद्घातः स च द्वादश 17.12त्रिर्जानुवेष्टनान्मात्रा त्रिगुणाच्छोटिकात्रयात् । अजितां नाक्रमेन्मात्रां वायु 17.13प्रत्यङ्गधारणाद्वायुं न च चक्षुषि धारयेत् । नाभिहृत्तालुकान्तस्थे विधृते मरुति क 17.14चतस्रो धारणा ज्ञेयाः शिख्यम्ब्वीशामृतात्मिकाः । यद्यत्र चिन्तयेद्द्रव्यं तत्तत्स 17.15बिन्दुनादात्मकं रूपमीशानी धारणा श्रिता । अमृतायां स्मरेदिन्दुं कालत्यागोक्तवर्त् 17.16धारणाभिरिहैताभिर्योगी योगपथे स्थितः । हेयं वस्तु परित्यज्य यायात्पदमनामयम् 17.17त्रिवेदद्वीन्दुसङ्ख्यातसमुद्घातास्त्विमा मताः । एताभिरप्यधोऽप्युक्तं फलं प्राप्न 17.18योगाङ्गत्वे समानेऽपि तर्को योगाङ्गमुत्तमम् । हेयाद्यालोचनात्तस्मात्तत्र यत्नः प् 17.19मार्गे चेतः स्थिरीभूतं हेयेऽपि विषयेच्छया । प्रेर्य तेनानयेत्तावद्यावत्पदमनामयम् 17.20तदर्थभावनायुक्तं मनो ध्यानमुदाहृतम् । तदेव परमं ज्ञानं भावनामयमिष्यते 17.21मुहूर्तादेव तत्रस्थः समाधिं प्रतिपद्यते । तत्रापि च सुनिष्पन्ने फलं प्राप्नोत्यभ 17.22यत्किं चिच्चिन्तयेद्वस्तु नान्यत्वं प्रतिपद्यते । तेन तन्मयतामाप्य भवेत्पश्चादभा 17.23पञ्चतामिव संप्राप्तस्तीव्रैरपि न चाल्यते । ततः शब्दादिभिर्योगी योगिनीकुलनन्दनः 17.24इत्यनेन विधानेन प्रत्याहृत्य मनो मुहुः । प्राणायामादिकं सर्वं कुर्याद्योगप्रसिद् 17.25सर्वमप्यथवा भोगं मन्यमानो विरूपकम् । स्वशरीरं परित्यज्य शाश्वतं पदमृच्छति 17.26तदा पूर्वोदितं न्यासं कालानलसमप्रभम् । विपरीतविधानेन कुर्यात्स्कृक्छिन्दियुग्गतम 17.27आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापिनीम् । पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान 17.28तमुत्कृष्य ततोऽङ्गुष्ठाद्ब्रह्मरन्ध्रान्तमानयेत् । छेदयेत्सर्वमर्माणि मन्त्रेणान 17.29जीवमादिद्विजारूढं शिरोमालादिसंयुतम् । कृत्वा तदग्रे कुर्वीत द्विजमाद्यमजीवकम् 17.30इत्येषा कथिता काल रात्रिर्मर्मनिकृन्तनी । नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीव 17.31शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना । एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्र 17.32निपीड्य तं ततस्तत्र बिन्दुनादादिचिन्तकः । वेगादुत्कृष्य तत्रस्थं कालरात्र्या विस 17.33अनेन क्रमयोगेन अने योजितः परमे पदे । समय्यपि महादेवि दीक्षोक्तं फलमश्नुते 17.34… सिद्धयोगेश्वरीमते । तत्सकाशाद्भवेत्सिद्धिः सर्वमन्त्रोक्तलक्षणा 17.35तदेव मन्त्ररूपेण मनुष्यैः समुपास्यते । एष ते ज्ञेयसद्भावः कथितः सुरवन्दिते 17.36अभक्तस्य गुहस्यापि नाख्येयो जातुचित्त्वया । उदरं सर्वमापूर्य ब्रह्मरन्ध्रान्तमाग 17.37वायुं भ्रमणयोगेन ततस्तं प्रेरयेत्तथा । यावत्प्राणप्रदेशान्तं योगिनां मनसेप्सितम् 17.38प्राप्यते पुनरावृत्य तथैव नाभिमण्डलम् । एवं समभ्यसेत्तावद्यावद्वासरसप्तकम् 17.39तदाप्रभृति संयुक्तः कर्षयेत्त्रिदशानपि । अनेनाकृष्य विज्ञानं सर्वयोगिनिषेवितम् 17.40गृह्णीयाद्योगयुक्तात्मा किमन्यैः क्षुद्रशासनैः । प्रथमं महती घूर्णिरभ्यासात्तस्य 17.41ततः प्रकम्पो देवेशि ज्वलतीव ततोऽप्यणुः