← Shiva Svarodaya
Shiva Svarodaya

प्राणगतिकथनम्

12 verses · Traditional

1.218देव देव महादेव सर्वसंसारसागरे । किं नराणां परं मित्रं सर्वकार्यार्थसाधकम् 1.219प्राण एव परं मित्रं प्राण एव परः सखा । प्राणतुल्यो परो बन्धुर्नास्ति नास्ति वरान 1.220कथं प्राणस्थितो वायुर्देहः किं प्राणरूपकः । तत्त्वेषु सञ्चरन्प्राणो ज्ञायते योगि 1.221कायानगरमध्यस्थो मारुतो रक्षपालकः । प्रवेशे दशभिः प्रोक्तो निर्गमे द्वादशाङ्गुलः 1.222गमने तु चतुर्विशन्नेत्रवेदास्तु धावने । मैथुने पञ्चषष्ठिश्च शयने च शताङ्गुलम् 1.223प्राणस्य तु गतिर्देवि स्वभावाद्द्वादशाङ्गुला । भोजने वमने चैव गतिरष्टादशाङ्गुलम् 1.224एकाङ्गुले कृते न्यूने प्राणे निष्कामता मता । आनन्दस्तु द्वितीये स्यात्कविशक्तिस् 1.225वाचां सिद्धिश्चतुर्थे च दूरदृष्टिस्तु पञ्चमे । षष्ठे त्वाकाशगमनं चण्डवेगश्च सप्त 1.226अष्टमे सिद्धयश्चैव नवमे निधयो नव । दशमे दशमूर्तिश्च (दशरूपाणि)छायाचैकादशे भवेत् 1.227द्वादशे हंसचारश्च गङ्गामृतरसं पिबेत्। आनखाग्रं प्राणपूर्णे कस्य भक्ष्यं च भोजनम् 1.228एवं प्राणविधिः प्रोक्तः सर्वकार्यफलप्रदः । ज्ञायते गुरुवाक्येन न विद्याशास्त्रको 1.229प्रातश्चन्द्रो रविः सायं यदि दैवान्न लभ्यते । मध्याह्नमध्यरात्राच्च परतस्तु प्रव