Shiva Sutras
The Shiva Sutras are the root aphorisms of Kashmir Shaivism, revealed to the sage Vasugupta. In 77 terse sutras across three sections they map the means (upayas) by which individual consciousness recognises itself as Shiva.
Prathama Unmesa — Shambhavopaya
1.1चैतन्यमात्मा
1.2ज्ञानं बन्धः
1.3योनिवर्गः कला शरीरम्
1.4ज्ञानाधिष्ठानं मातृका
1.5उद्यमो भैरवः
1.6शक्तिचक्रसन्धाने विश्वसंहारः
1.7जाग्रत्स्वप्नसुषुप्तिभेदे तुर्याभोगसम्भवः
1.8ज्ञानं जाग्रत्
1.9स्वप्नो विकल्पः
1.10अविवेको माया सौषुप्तम्
1.11त्रितय भोक्ता वीरेशः
1.12विस्मयो योग भूमिका
1.13इच्छा शक्तिरूमा कुमारी
1.14दृश्य शरीरम्
1.15हृदय चित्त सङ्घट्टाद् दृश्य स्वाप दर्शनम्
1.16शुद्ध तत्त्वानुसन्धानादा अपशु शक्तिः
1.17वितर्क आत्म ज्ञानम्
1.18लोकानन्दः समाधि सुखम्
1.19शक्ति सन्धाने शरीरोत्पत्तिः
1.20भूत सन्धान भूत पृथक्त्व भूत संघट्टाः
1.21शुद्ध विद्योदयाच्चकेशत्व सिद्धिः
1.22महा हृदनुसन्धानात्मन वीर्यानुभवः
Dvitiya Unmesa — Shaktopaya
2.1चित्तं मन्त्रः
2.2प्रयत्नः साधकः
2.3विद्या शरीरं सत्ता मन्त्ररहस्यम्
2.4गर्भे चित्त विकासोऽविशिष्ट विद्या स्वप्नः
2.5विद्या समुत्थाने स्वाभाविके खेचरी शिवावस्था
2.6गुरुपायः
2.7मातृका चक्र सम्बोधः
2.8शरीरं हविः
2.9ज्ञानमन्नम्
2.10विद्या संहारे तदुत्थ स्वप्न दर्शनम्
Tritiya Unmesa — Anavopaya
3.1आत्मा चित्तम्
3.2ज्ञानं बन्धः
3.3कलादीनां तत्त्वानाम् अविवेको माया
3.4शरीरे संहारः कलानाम्
3.5नाड़ी संसार-भूत जय-भूत कैवल्य-भूत पृथक्त्वानि
3.6मोहावरणात् सिद्धिः
3.7मोह जयानन्ताभोगात् सहज विद्या जयः
3.8जाग्रद् द्वितीयः करः
3.9नर्तक आत्मा
3.10रङ्गोऽन्तरात्मा
3.11प्रेक्षकाणीन्द्रियाणि
3.12धी वशात् सत्त्व सिद्धिः
3.13सिद्धः स्वतन्त्र भावः
3.14यथा तत्र तथाऽन्यत्र
3.15बीजावधानम्
3.16आसनस्थः सुखं हदे निमज्जति
3.17स्व मात्रा-निर्माणमापादयति
3.18विद्याविनाशे जन्म विनाशः
3.19क वर्गादिषु माहेश्वराद्याः पशु मातरः
3.20त्रिषु चतुर्थं तैलं वदासेच्यम्
3.21मग्नः स्व चित्तेन प्रविशेत
3.22प्राण समाचारे सम दर्शनम्
3.23मध्येऽवरः प्रसवः
3.24मात्रा स्व प्रत्यय सधाने नष्टस्य पुनरुत्थानम्
3.25शिव तुल्यो जायते
3.26शरीर वृत्तिव्रतम्
3.27कथा जपः
3.28दानमात्म ज्ञानम्
3.29योऽविपस्थो ज्ञानहेतुश्च
3.30स्व शक्ति प्रचयोऽस्य विश्वम्
3.31स्थिति लयौ
3.32तत्-प्रवृत्तावप्यनिरासः संवेत्तृ भावात्
3.33सुखदुःखयोर्बहिर्मननम्
3.34तद्-विमुक्तस्तु केवली
3.35मोह प्रति संहतस्तु कर्मात्मा
3.36भेद तिरस्कारे सर्गान्तर कर्मत्वम्
3.37करण शक्तिः स्वतोऽनुभवात्
3.38त्रिपदाद्यनु प्राणनम
3.39चित्त स्थितिवच्छरीर करणं बाह्येषु
3.40अभिलाषाद्बहिर्गतिः सन्ध्यास्य
3.41तदारूढ प्रमितेस्तत्क्षयाज्जीव संक्षयः
3.42भूत कञ्चु की तदा विमुक्तो भूयः पति समः परः
3.43नैसर्गिकः प्राण सम्बन्धः
3.44नासिकाऽन्तर्मध्य संयमात् किमत्र सव्यापसव्य-सौषुम्णेषु
3.45भूयः स्यात् प्रति मीलनम्